SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग चतुर्थमध्ययन श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयोद्देशकः चतुःस्थानम्, ||400 // 371-72) इति, विष्कम्भश्चैषामेवम्-विजयाणं विक्खंभो बावीससयाई तेरसहियाई। पंचसए वक्खारा पणुवीससयं च सलिलाओ॥ 1 // (बृहत्क्षेत्र० 370) इति // पद्यते- गम्यते इति पदं- सङ्ख्यास्थानं तच्चानेकधेति जघन्यं-सर्वहीनं पदं जघन्यपदं तत्र विचार्ये सत्यवश्यंभावेन चत्वारोऽर्हदादय इति / भूम्यां भद्रशालवनं मेखलायुगले च नन्दनसौमनसे शिखरे पण्डकवनमिति, अत्र गाथाः-बावीससहस्साइं पुव्वावरमेरुभद्दसालवणं / अड्डाइज्जसया उण दाहिणपासे य उत्तरओ॥१॥पंचेव जोयणसए उड्ढगंतूण पंचसयपिहुलं। नंदणवणं सुमेरुं परिक्खिवित्ता ठियं रम्मं // 2 // बासट्ठिसहस्साइं पंचेव सयाई नंदणवणाओ। उड्ढ गंतूण वणं सोमणसं नंदणसरिच्छं॥३॥ सोमणसाओ तीसं छच्च सहस्से विलग्गिऊण गिरिं। विमलजलकुंडगहणं हवइ वणं पंडगं सिहरे॥४॥ चत्तारि जोयणसया चउणउया चक्कवालओ रुंदं। इगतीस जोयणसया बावट्ठी परिरओ तस्स॥५॥ (बृहत्क्षेत्र० 317-27-38-46-47) इति, तीर्थकराणामभिषेकार्थाः शिला अभिषेकशिलाश्चूलिकायाः पूर्वदक्षिणापरोत्तरासु दिक्षु क्रमेणावगम्या इति, उवरि ति अग्रे विक्खंभेणं ति विस्तरेणेति यथा जंबूद्दीवे दीवे भरहेरवएसु वासेसु इत्यादिभिः सूत्रैः कालादयश्चूलिकान्ता अभिहिता एवं धातकीखण्डस्य पूर्वार्द्ध पश्चिमार्द्ध पुष्करार्द्धस्यापि पूर्वार्द्ध पश्चिमाः च वाच्या, एकमेरुसम्बद्धवक्तव्यतायाश्चतुर्ध्वप्यन्येषु समानत्वाद्, एतदेवाह- एव मित्यादि, अमुमेवातिदेशं सङ्ग्रहगाथया आह- जंबूद्दीवे त्यादि, जम्बुद्वीपस्येदं जम्बूद्वीपकं 0 विजयानां विष्कम्भो त्रयोदशाधिकानि द्वाविंशतिशतानि / वक्षस्काराणां पञ्चशतानि सलिलानां पञ्चविंशत्यधिकं शतम्॥१॥मेरोः पूर्वापरयोविंशतिः सहस्राणि भद्रशालवनम्। दक्षिणोत्तरपार्श्वयोरर्द्धतृतीयशतानि पुनः॥ 1 // पञ्चैव योजनशतान्यूज़ गत्वा पञ्चशतपृथुलम् / नन्दनवनं सुमेरुं परिक्षिप्य स्थितं रम्यम् // 2 // नन्दनवनादूर्ध्वं द्वाषष्टिः सहस्राणि पञ्चैव शतानि गत्वा नन्दनवनसदृशं सौमनसं वनम् / / 3 / / सौमनसात्षट्त्रिंशत्सहस्राणि गत्वा गिरौ / विमलजलकुण्डगहनं पाण्डकं वनं भवति शिखरे / / 4 / / चतुर्नवत्यधिकचतुर्योजनशतानि चक्रवालतया विस्तीर्णम्। द्विषष्ट्यधिकैकत्रिंशद्योजनशतानि तस्य परिरयः / / 5 / / सूत्रम् 300-302 मानुषोत्तरकूटाः, सुषमसुषमामानम्, देवकुरूत्तरकुर्वकर्मभूमिवृत्तवैताढ्यतद्धिपमहाविदेहनिषधाधुच्चत्ववक्षस्कार 16 जघन्यपदचक्रयादि मेरुवनाऽभिषेकशिलाचुलिकाविष्कम्भाः धातक्यादावपिच // 400 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy