SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 7 // // सम्पादकीयम्॥ सम्पादकीयम् आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः। देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्त्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य अयं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। प्रथमश्रुतस्कन्धे आचारः प्ररूपितः, तस्मिन् समस्तोऽपि विवक्षितोऽर्थो नाभिहितः, अभिहितोऽपि संक्षेपतोऽनभिहितार्थाभिधानायल संक्षेपोक्तस्य च प्रपञ्चाय तदग्रभूताश्चतस्रश्चूडा अस्मिन् द्वितीयश्रुतस्कन्धे प्रतिपादिता / यथा पर्वतस्याग्रं शिखरं तथा आचारस्याग्रं चूडा तस्मात् द्वितीयश्रुतस्कन्धस्याभिधानमग्रश्रुतस्कन्धः / चूडाया अपर नाम चूलिका / अस्मिन् द्वितीयश्रुतस्कन्धे चतम्रचूलिकाः सन्ति। प्रथमचूलिका सप्ताध्ययनात्मिका, द्वितीयचूलिका सप्तसप्तिका तृतीयचूलिका भावनाऽध्ययनात्मिका, चतुर्थचूलिका विमुक्त्य-8 ध्ययनात्मिका। आचारस्याधारो धर्मशरीरम्, तस्याधारो पिण्डस्तस्मात् प्रथमं पिण्डैषणाऽध्ययनम्, पिण्डः प्रतिश्रये भोक्तव्यस्तस्मात् शय्यैषणाअध्ययनम्, पिण्डशय्ययोरन्वेषणार्थ गमनं विधेयं तस्मै इर्याऽध्ययनम्, अन्वेषणार्थ निरवद्यभाषा उपयुक्ता भवति तस्मात् भाषाजाताऽध्ययनम्, भाषासमित्यनन्तरं एषणासमितिर्भवतीति वस्त्रैषणाऽध्ययनम्, पात्रेण विना पिण्डोन ग्राह्यस्तथा एषणासमित्यन्तर्गतं पात्रैषणाऽध्ययनम्, पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीति अवग्रहाऽध्ययनम्। द्वितीयचूलिकायां कायोत्सर्गस्वाध्यायोच्चारप्रश्रवणादि कीदृशे स्थाने विधेयमित्येतत्प्रतिपादनाय सप्ताध्ययनात्मिका द्वितीयचूलिका। तृतीयचूलिकायां पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थ भावनाः प्रतिपादिताः। // 7 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy