________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 662 // श्रुतस्कन्ध:२ चूलिका-१ तृतीयमध्ययन ईर्या, द्वितीयोद्देशकः सूत्रम् 343-344 नावारूढविधिः उदके गमनविधिः धारेहि, एयंता तुमंदारगंवा पजेहि, नो से तं०॥सूत्रम् 343 / / स: पर: गृहस्थादिर्नावि व्यवस्थितस्तत्स्थमेव साधुमेवं ब्रूयात्, तद्यथा- आयुष्मन्! श्रमण! एतन्मदीयं तावच्छत्रकादि गृहाण, तथैतानि शस्त्रजातानि आयुधविशेषान् धारय, तथा दारकाधुदकं पायय, इत्येतां परिज्ञां प्रार्थनां परस्य न शृणुयादिति // 343 // तदकरणे च परः प्रद्विष्टः सन् यदि नाव: प्रक्षिपेत्तत्र यत्कर्त्तव्यं तदाह सेणं परो नावागए नावागयं वएज्जा-आउसंतो। एस णं समणे नावाए भंडभारिए भवइ, सेणं बाहाए गहाय नावाओ उदगंसि पक्खिविजा, एयप्पगारं निग्घोसं सुच्चा निसम्म से यचीवरधारी सिया खिप्पामेव चीवराणि उव्वेदिज्ज वा निवेढिज वा उप्फेसं वा करिज्जा॥१॥अह० अभिकंतकूरकम्मा खलु बाला बाहाहिंगहाय ना० पक्खिविजासे पुव्वामेव वइज्जा-आउसंतो! गाहावईमा मेत्तो बाहाए गहाय नावाओ उदगंसि पक्खिवह, सयंचेवणं अहं नावाओ उदगंसि ओगाहिस्सामि ॥२॥सेणेवं वयंत परो सहसा बलसा बाहाहिं ग० पक्खिविजा तं नो सुमणे सिया नो दुम्मणे सिया नो उच्चावयं मणं नियंछिज्जा नो तेसिं बालाणं घायाए वहाए समुट्ठिज्जा अप्पुस्सुए जाव समाहीए तओ सं० उदगंसि पविजा / / सूत्रम् 344 / / स पर: णं इति वाक्यालङ्कारे नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात्, तद्यथा- आयुष्मन्! अयमत्र श्रमणो भाण्डवन्निश्चेष्टत्वाद् / गुरु: भाण्डेन वोपकरणेन गुरुः, तदेनं स्वबाहुग्राहं नाव उदके प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चित् निशम्य अवगम्य स:साधुर्गच्छगतो निर्गतो वातेन चचीवरधारिणैतद्विधेयं-क्षिप्रमेव चीवराण्यसाराणि गुरुत्वान्निर्वाहयितुमशक्यानि च उद्वेष्टयेत् पृथक् कुर्यात्, तद्विपरीतानि तु निर्वेष्टयेत् सुबद्धानि कुर्यात्, तथा उप्फेसं वा कुज्जत्ति शिरोवेष्टनं वा कुर्याद् (c) तदेनं च बाहुग्राहं (मु०)। 0 निर्वाहितुम० (मु०)। // 662 //