________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 167 // गुणा वेति / उक्ताः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति / साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयो- श्रुतस्कन्धः१ द्वितीयमध्ययनं पशमाविर्भूतवीर्येणात्मना प्रकर्षेण युज्यत इति प्रयोगः, स च मनोवाक्कायलक्षणः पञ्चदशधा, कथमिति?, उच्यते, तत्र लोकविजयः, मनोयोगः सत्यासत्यमिश्रानुभयरूपश्चतुर्द्धा, एवं वाग्योगोऽपि, काययोगः सप्तधा- औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्रा- प्रथमोद्देशकः हारकाहारकमिश्रकार्मणयोगभेदात्, तत्र मनोयोगोमन:पर्याप्त्या पर्याप्तस्य मनुष्यादेः, वाग्योगो द्वीन्द्रियादीनाम्, औदारिक-8 नियुक्ति: 192 कर्मनिक्षेपाः योगस्तिर्यग्मनुजयोः शरीरपर्याप्तेरूद्धम्, तदारतस्तु मिश्रः, केवलिना वा समुद्धातगतस्य द्वितीयषष्ठसप्तमसमयेषु, वैक्रियकाय-3 योगो देवनारकबादरवायूनाम्, अन्यस्य वा वैक्रियलब्धिमतः, तन्मिश्रस्तु देवनारकयोरुत्पत्तिसमयेऽन्यस्य वा वैक्रियं निवर्तयतः, आहारककाययोगश्चतुर्दशऍविद आहारकशरीरस्थस्य, तन्मिश्रस्तु निर्वर्त्तनाकाले, कार्मणयोगो विग्रहगतौ केवलिसमुद्धाते वा तृतीयचतुर्थपञ्चमसमयेष्विति / तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् विहायोत्तप्तभाजनोदकवदुद्वर्त्तमानैः सवैरेवात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद् बध्नाति तत्प्रयोगकर्मेत्युच्यते, उक्तं चजाव णं एस जीवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा नो ण अबंधए / समुदानकर्म सम्पूर्वादापर्वाच्च ददातेयुंडन्तात् पृषोदरादिपाठेन आकारस्योकारादेशेन रूपं भवति, तत्र प्रयोग-8 कर्मणैकरूपतया गृहीतानां कर्मवर्गणानां सम्यग्मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धभेदेनाङ्-मर्यादया देशसर्वोपघातिरूपया तथा स्पृष्टनिधत्तनिकाचितावस्थया च स्वीकरणं समुदानं तदेव कर्म समुदानकर्म, तत्र मूलप्रकृतिबन्धो ज्ञानावरणीयादिः, उत्तरप्रकृतिबन्धस्तूच्यते उत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा-मतिश्रुतावधिमनःपर्यायकेवलावरणभेदात्, तत्र केवलावारकं ®यावदेष जीव एजते व्येजते चलति स्पन्दते, तावदष्टविधबन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको वा, नैवाबन्धकः /