________________ त्रिभुवन // 34 // श्रुत्वा तस्याः सख्या प्रोक्तं, तर्हि त्वमेकां समस्यां पृष्ट्वा तच्चातुर्यपरीक्षां कुरु? ततस्तया || चरित्रं कन्ययैका समस्या तस्य पृष्टा, यथा-गतं गतं यौवनमानयंति. ततस्तेन कुमारेणापि तस्याः सा समस्य तत् श्रुत्वा सखीसहितायास्तस्याः कन्याया मनसि संतोषो जातः. ततः पश्चामात्रौ सा कन्या तेन कुमारेण सह वाहिन्यां समारुह्य सखीसहिता ततश्च लिता. मार्गे तेन कुमारेण सह विमोष्टीः कुर्वत्यास्तस्यास्तेन सहातीव स्नेहो जातः. ततस्ताच्यां परस्परं निजस्वरूपं सर्वं कथितं. अथ मार्गे गन्नतां तेषां किय निर्दिनैरेकं नगरं समागतं. तत्रैकमहसरोवरतटे वाटिकापार्श्वे ईश्वरप्रासादस्तैदृष्टः. तच्च वर्यस्थानं दृष्ट्वा ते सपेऽपि तत्र नोजनार्थ समुपविष्टाः. कुमारोऽपि वाहिनी हयत्रयं च वाटिका बोटयामास. ततस्तया कन्ययेको हेमटंकः कुमारायार्पितः, कथितं च नो कुमार! अथ त्वं नगरमध्ये गत्वान्नादिनोजनं समानय ? स नगरमध्ये गत्वा तेन हेमटकेन घृतान्नसुखनक्षिकादिनानाविधखाद्यवस्तूनि गृहीत्वा समागतः. प्रथमं सुखभदिका तया भक्षिता. ततः स्वस्थीभृतया तया कन्यया प्रोक्तमथ धान्यादीनां रसवती को निष्पादयिष्यति? तदा कुमारेणोक्तमत्रासन्नवाटिकायामासानिधान // 34 //