________________ त्रिभुवन चरित्र // 13 // पुरुषोत्तम! त्वं नाग्याधिकोऽसि, अतो मे समीहितं कुरु? अथ कुमारेण चिंतितं. नूनं सर्वमेतत्पूर्वकर्मफलं ज्ञातव्यं. पुनः कुमार्या पृष्ट नो पुरुषोत्तम ! अथ त्वं निजं वृत्तांतं कथय ? त्वमेवंविधसुकुमालो छात्रिंशलक्षणडिसप्तनिकलायुतः कथमेकाकी देवकुलेऽस्मिन् समायात ? इत्यादिकं तव वृत्तांतं कथयित्वा मम परमानंदं विधेहि ? तदा कुमारेण चिंतितं-स्त्रीणां गुह्यं न वक्तव्यं / प्राणैः कंगतैरपि // नाशितः पक्षिराजेन / पुमरीको यथा फणी // 1 // सिद्धमंत्रौषधं विडं। गृहदुश्चरितानि च // वंचनं चापमानं च / मतिमान्न प्रकाशयेत् // 2 // इति विचिंत्य कुमारेणोक्तं हे तन्वि! सुपुरुषा निजवृत्तांतं स्वमुखेन न प्रकाशयंति. अथ तयातीवाग्रहतः पृष्ठेन कुमारेण स्ववृत्तांतस्तदने निवेदितः, कथितं च मयैवं पितुरग्रे पूर्वकर्मपरिणामेनैव जनोऽत्र सुखं दुःखं च लनते. इति ममुक्तं श्रुत्वा कुपितेन पित्राहं गृहान्निकासितः, ततोऽहं मातुः प्रधानादीनामाज्ञां गृहीत्वा क्रमेणाश्वारूढो विनिर्गत्यात्र देवकुले सुप्तः, तावता सख्या सह त्वमत्र मम मिलिता, तदा मया चिंतितं नूनं पूर्वपुण्येनेवायं तव मेलापको जातः. सर्वमेतत् श्रुत्वा हृष्टया राजकन्यया तेन सह प्रीतिग्रंथिबद्धा. अथ परस्परं // 13 //