________________ ज भुवन चरित्रं // 82 / / वान बनalaitanishaaaaaaa मपि पूर्वाधीतं. विस्मृतस्तदर्थः, प्रतिपन्नानि व्रतान्यपि सा नालोचयति, करोति च सदा तदतिचारान्, / प्रमाद्यति देववंदनायां, न सुखयत्यध्येतव्यं, न रमते चित्तं धर्मकथायां, करोत्यनादरेण किंचित्प्रतिक्रमणादिकं. अन्यदा च क्वचिदुपविष्टया तया कयाचित्समं महाविकथापरपरिवादप्रबंधं कुर्वत्यात्यंतपरवशीभूतया कोऽप्यत्रास्ति वा नास्तीत्यचिंतयंत्या प्रोक्तं सहसैव यथैतन्नगरनरपतेरग्रमहिष्यतीवदुःशीला, जानामि | चाहमेतत्सम्यगेव. यतः शोभनेनैव मानुषेणैतन्मम कथितमित्यादि. एतच्च तस्मिन् प्रदेशे प्रयोजनवशा. दागतया तदास्या स्थिरीभूय सर्व सम्यगाकर्ण्य निवेदितं राश्य, तया च कथितं नरपतये, तेनाप्यानायिता रोहिणी, गतश्च तां गृहीत्वा तत्पिता सुभद्रसार्थवाहः, ततश्चैकांते विधृत्य पृष्टा पार्थिवेन रोहिणी, भद्रे! कथय मम सत्यं यदाकर्णितं त्वया मत्कलत्रस्वरूपं? तया प्रोक्तं किमेतत? न मया किमप्याक. र्णितं, न चाहं कस्यापि सत्कं किंचिज्जानामीत्यादि. ततो मूलत एव सर्वापलापं कुर्वतीमेतामालोक्य | राज्ञानायिता तत्र प्रदेशे सा दासी, कारिता संवादं, ततोऽनयानेकाभिज्ञानपूर्वकं तथासौ कृता यथा | | रोहिणी निरुत्तरीभूय ग्रीवामधोऽवलंव्य मोनमास्थाय च व्यवस्थिता. ततः प्रकुपितेन राज्ञा समाहृतः / // 82 //