________________ भुवन चरित्रं // 74 // DOMMEME नजि DODEOS / रेण द्रम्मान् प्रयच्छति तेषां कारयत्यतिगाढतया भक्तपाननिरोधादोनि. ततश्च ते बाध्यते भृशं, म्रियते | च केऽपि कदाचित्. अन्यदा च विभवहीनतायां प्रतिपन्नः सुंदरेण कोऽपि राजनियोगः, तत्र च हिंसापि / प्रकटीभृता सहाप्रत्याख्यानावरणक्रोधादिभिः. ततस्तदुदयावृत्तिनिरपेक्ष एव कांश्चिद्वेधयति, अपरान् / | कषादिघातैस्ताडयति, अन्यान् शीतातपधारणोष्णतैलच्छंटनादियातनाभिः पीडयति. कांश्चिच्छलत एव | | घातयति. ततो विरक्तया परित्यक्तस्तया देशविरतिप्रियया, केवलं कुलकमायातरीत्यैव गच्छत्यसौ देवः | | गृहं, वंदते देवान्, कारयति पूजादिकं, विदधाति दर्शनप्रयोजनानि, वहति च महत्तत्पक्षपातं. एतावता न गतोऽनंतरमसौ नरकादिषु, किंतु देशविरतिभ्रंशेन विराधितसम्यक्त्वगुणो मृतः समुत्पन्नो हीनभवनपतिदेवेषु सुंदरः. ततश्च भ्रांतो भूरिसंसार. ___अन्यदा चोत्पन्नोऽसौ सम्यग्दृष्टिशालिभद्रश्रेष्टिनो माणिभद्रनामा पुत्रः, जातश्च तत्रापि स सम्यग्दृष्टिः, प्रतिपन्नं चान्यदा देशविरतिबालिकानुरागात्तथैव कन्यागोभृमिन्यासापहारकूट साक्षित्वकूटक्रया| दिविषयबादरालीकस्य द्विविधत्रिविधेन जल्पननिवृत्तिलक्षणं द्वितीयं स्थूलमृषावादविरतिव्रतं, प्रत्या| ख्याताश्च सहसाभ्याख्यानमंत्रणकाद्युपविष्टाभिमुखज्ञाताज्ञातार्थभाषणस्वदारादिमंत्रभेदमृषोपदेशकूटले. // 74 //