SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ चरित्रम् // 19 // का रोषातुरा प्राह, कीदृशं मया कृतं ? तस्या दुष्टायाः शिक्षा दापिता, गंधमूषिका प्रेषिता, सर्वमप्येतन्मया कृतं, यादृशी सा तवेष्टाऽभूत तादृशं मया कृतं. किं पुनः पुनर्दासवत्तदीयगुणान जल्पसि ? एतत् श्रुत्वा कुमारो निःकलंका कमलरणसिंह वतीमाकलप्य क्रोधातुरमना रक्तनयनो रत्नवतीं हस्ते गृहीत्वा चपेटया हत्वा निर्भत्स्यं घिधिग् त्वामसत्कर्मका॥१०॥रिणी, ययाजज्ञा दत्वा कुकर्म कारितं, त्वया स्वकीयो जीवो दुःखसमुद्रे क्षितः, तस्याः स्त्रियः कुर्कुर्यपि वरं या भषमाणा अन्नप्रदानेन वशीभवति, न जल्पति. परं मानिनी बहुमानितापि स्वकीया न भवतीति कथयतिस्म. पुनः bस चिंतयामास हाहा मदीया दयिता कमलवती मिथ्याकलंकचितायां पतिता मरणं प्राप्ता भविष्यति, तहि ममाप्यनेन जीवनेन मृतमिति स्वसेवकानादिदेश, मदीयावासद्वारप्रदेशे महतीमेकां चितां रचयत ? यथाहं कमलवतीविरहदुःखतो म्रिये, एवमुक्त्वा बलात्कारेण चिता कारिता. सर्वैर्यमाणाऽपि ज्वलितुं चलितः, एतत् श्रुत्वा राज्ञापि कूटकपटपेटिका मिथ्याकलंकदायिका अकार्यकारिका नरकगतिगामिनी गंधमूषिकानाम्नी बहुकदर्थ्यमाना विगलितमाना लब्धापमाना रासभारोहणादिप्रकारेण नगरानिष्कासिता, स्त्रीत्वान्न मारिता. अथ कुमारोऽपि बहुप्रकारं राजप्रधानसार्थवाहादिभिर्वायमाणेऽपि चितासमीपमागतः, राजदयश्चितयंति हाहा महानों भविष्यति, स्त्रीवियोधेनैताहक bl पुरुषरत्नं मरिष्यति. कुमारं चितायां पतितुमुद्यत ज्ञात्वा पुरुषोत्तमनृपो बटुकांतिकं गत्वा कथयति, भो देव त्वदीयं वावयं नायमुल्लंघयति, ततस्तथा विज्ञाप्तिकां कुरु यथायमस्मात्पापन्निवर्तते, तदा बटुकः कुमारमाह भो भद्र उत्तमo कुलोत्पनोऽपि त्वं किं नीचकुलोचितं कर्माचरसि ? नैतघटते तव सदाचारस्य, यतोऽग्निप्रवेशादिनाऽनं तसंसारवृद्धिः, eseeeese CCCCCCCCCCCCES
SR No.600416
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1933
Total Pages30
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy