SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ महान स्ववेष सुमित्राय समर्पयित्वा स्वाया तो परिरभ्य पार्श्वे स्थापयामासस्य पाणिग्रहणं कृत्वा रणसिंह चरित्रम् // 10 // // 10 // 監必业欧欧欧业政中心 प्राणिग्रहणतः समुद्धर मन्मथोदधेः, इति मित्रवाक्यं श्रन्या गांधर्व विवाहेन तेन सा परिणीता, कमलवत्यपि मनसि महानंद प्राप्ता, रात्रौ च सुमित्रेण साई स्वगृहमागता तवसरे विवाहकार्यहर्षातिरेकेण व्यग्रचित्तं स्वपरिवारं ज्ञात्वा * कमलवती स्ववेषं सुभित्राय समर्पयित्वा स्वयं चान्यवेष परिधाय रणसिंहकुमारपार्श्वे समागता, सर्वापि प्रवृत्तिः स्व भरिग्रे कथिता. कुमारोऽपि स्नेहदृष्ट्या गाढं दोा तां परिरभ्य पार्श्वे स्थापयामास. अथ लग्नवेलायां भीमसुतोऽपि हस्तिस्कंधमारुह्य महताडंबरेणागतो महोत्सवपूर्वकं कमलवतीवेषधारकस्य सुमित्रकुमारस्य पाणिग्रहणं कृत्वा स्वावासमागतः, कामवशेन कोमलालापपूर्वकं नवीनवधू पुनः पुमरालापयति, परं मनागपि न जल्पति न्यग्भूय स्थिता. तदाऽतिमदनातुरेण तेन तदीयमंगं हस्तेन स्पृष्टं, तदा पुरुषस्पर्शी ज्ञातः, पृष्ठं त्वं कोऽसि? तेनोक्तमहं त्वदीयवधूः, कुमारे*णोक्तं त्वं कुतो वधूः? त्वदीयः कायस्पर्शः पुरुषस्येव दृश्यते. तदा वधूवेषधारकेण सुमित्रेणोक्तं हे प्राणनाथ किमिदं जल्पितं? किं भवदीयं चेष्टितं स्पष्टीकरोषि? यडिवाहोत्सवेन नवपरिणीतां मां.चेटकविद्यया पुरुषरूपेण करोषि! अहं त्वधुना गत्वा मदीयपित्रोः समीपे कथयिष्यामि, यदहं कुमारप्रभावेण पुत्रीत्वं विहाय पुत्रो जातः, एवमुक्ते स भीमके पुत्रो व्यग्रचित्तो बभूव, किमिदं जातमिति, सुमित्रोऽपि स्त्रीवेषधारक एव रणसिंहकुमारपाचे समागतः, सर्व रजनी व्यतिकरं चाऽचीकथत् , तत्कौतुकं श्रुत्वा सर्वेऽपि परस्परं हस्ततालं दत्वा हसितवंतः, पश्चागीमपुत्रेणापि समागत्य * कनकसेननृपाग्रे कथितं, या भवदिया पुत्री मया सार्द्ध विवाहिता स तु पुत्रो दृश्यते. तत् श्रुत्वा श्वसुराभ्यामुक्तं किमयं जामाता अथिलो जातः! यदेवं जल्पति किं वा भताद्यावेषवान् ! यदेवमसंबद्धं वक्ति. 三三三三三三三
SR No.600416
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1933
Total Pages30
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy