________________ ब्राह्मी चरित्रं 10 // नासत्यं वदेतां, किंचाहं नैव हस्तिस्कंधाधिरूढोऽस्मि. इति विचारयतस्तस्य तदैव स्मृतिपथमागतं, यथा || आः! ज्ञातं ! ताभ्यां साध्वीभ्यां सत्यमेव प्रोक्तमस्ति, अहं खलु मानहस्तिस्कंधाधिरूढोऽस्मि तेनैव के बलज्ञानं मत्तो दूरमेव नश्यति, यतः-मुष्णाति यः कृतसमस्तसमीहितार्थ-संजीवनं विनय जीवितमंगभाजां // जात्यादिमानविषजं विषमं विकारं / सन्मार्दवामृतरसेन नयस्व शांति // 1 // औचित्याचरणं विलुपति पयोवाह नभस्वानिव / प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितं // कीर्ति करविणीं म| तंगज इव प्रोन्मूलयत्यंजसा | मानो नीच इवोपकारनिकरं हंति त्रिवग नृणां // 2 // अहो! मे ते लघु1 बंधवोऽपि पूर्वगृहीतदोक्षालंकृता मत्तो वृद्धा एव वंदनाहा॑श्च संति, अतो मम केवलज्ञानांतरायकारक मानं परित्यज्याधुनैव गत्वा तान् वंदामि, इत्यादि चिंतयन् तेषां वंदनार्थ गंतुं यावत्ततो निजपादमुत्पाटयति तावदेव शुभभावनया तवैव तस्य केवलज्ञानं समुत्पन्न, ततः प्रभुसमवसरणे गत्वा स केवलिना BREAKERATORS