SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ किं कृतं मयाऽभागिन्या ? / त्रैलोक्येऽपि यो मूों विदितः स वृतः / हा! पापदैव !, किं |कृतम्"। “अन्यथा चिन्तितं कार्य दैवेन कृतमन्यथा / राजकन्याप्रमादेन भिक्षुको व्याघ्रभक्षितः // 1 // इति / / ततस्तयाऽचिन्ति-'अस्तु ! किं शोकेन ? / यतो मां विना केनाऽप्यद्यापि मम कृत्यं ज्ञातं नास्ति। अनेनाऽप्युपलक्षिता नाऽस्मि / ततो यामि खस्थानं नंष्ट्वा' / इति चिन्तयित्वा सर्वां विवाहसामग्री गोपयित्वा सा जगाम निजगृहम् / पुनः प्राप्तव्यमर्थिक एकाक्येव जातः / ततस्तेनाऽचिन्ति-अद्यापि रजनी बबी / ततो नगरे भ्रमामि, पुनः कौतुकं विलोकयामि / इति विचिन्त्य निस्ससार |देवकुलात् ।नगरे भ्रमन् प्राप्तश्चतुष्पथे, पश्यति स्म तन्नगरवासिन एव वस्तुपतिव्यवहारिणः सुतं वसुद-18 |त्तनामानं जिनदत्तनाम्नो व्यवहारिणः सुतां वसुमती परिणेतुं गच्छन्तम् / प्राप्तव्यमर्थिकोऽपि कौतुकार्थी बहुलोकेन सार्द्ध प्रचचाल तत्पृष्ठौ / एवं वाद्यनिनादाभिरामं नगरान्तव्रजन् तस्मिन् जिनदत्तरहे पाणिग्रहणस्थाने यावता वरो जगाम चत्वरिकायास्तावता तन्नगरराज्ञो हस्तिशालायाः कश्चनापि हस्ती तद्वाद्यध्वनिश्रवणान्मदोन्मत्तो जात आलानस्तम्भमुन्मूल्य निर्जगाम / स हस्ती राजमन्दिरान्नगरे भ्रमन् हट्टश्रेणिं पातयन् वृक्षमालामुन्मूलयन् निनादाभिमुखमागच्छन् लोकलक्षांस्त्रासयन् 1 क्रियाविशेषणम् / 6%A15250*4-15668
SR No.600405
Book TitleAghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Original Sutra AuthorN/A
AuthorManchand Velchand
PublisherManchand Velchand
Publication Year1917
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy