________________ SHARE तहविहु कामपिसायाहिडिओ नट्ठनिम्मलविवेओ। तेणज्झवसाएणं खणंपि पावेइ नो सुक्खं // 686 // अन्नदिणे सो नारीवेसं काऊण कामगहगहिलो। मयणाणं आवासं सयं पविट्ठो सुपाविठ्ठो // 687 // जाव पलोएइ तहिं ताव न पिच्छेइ ताउ मयणाओ। पुरओ ठिआउ मालाइसएण अद्दिस्सरूवाओ॥ 688 / / तथापि हु इति-निश्चितं कामः-कन्दर्प एव पिशाचो-दुष्टव्यन्तरस्तेन अधिष्ठितः-आश्रितोऽत एव नष्टो निर्मलो विवेको यस्य स एवंविधः स धवलश्रष्ठी तेन अध्यवसायेन-मनःपरिणामेन क्षणमपि सुखं न प्रामोति // 686 / / अन्यस्मिन् दिनेस धवलो नारीवेष-स्त्रीवेष-कृत्वा कामरूपग्रहेण ग्रथिलः सन् स्वयम्-आत्मना मदनयोःश्रीपालस्त्रियोः आवास-मन्दिरं प्रविष्टः, तयोरावासे प्रविष्टवानित्यर्थः, कीदृशः सः ?-सुतरामतिपापिष्टः सुपापिष्टः // 687 // यावत्तत्रावासे प्रलोकयति तावत् पुरतः-अग्रतः स्थिते ते मदने न प्रेक्षते-न पश्यति, कीदृश्यौ मदने ?-मालाऽतिशयेन-मालयोः प्रभावेण अदृश्यं रूपं ययोस्ते अदृश्यरूपे // 688 / / ६८६-अत्र कामस्य पिशाचत्वेन रूपणात् रूपकालङ्कारः। ६८७-अत्र काम पव ग्रहस्तेन ग्रहल इति कामे प्रहत्वारोपापकमेवालङ्कारः। ६८८-अत्र तयोरनवलोकने मालातिशयादृश्यरूपत्वस्य हेतुतया कथनात्काव्यलिगमलङ्कारः /