________________ ARRRRRRRRRRRRRRRECR अन्नाणवाहिविहुराण पाणिणं सुअरसायणं सारं / जे हिंति महाविजा तेऽहं झाएमि उज्झाए // 1248 // गुणवणभंजणमणगयदमणंकुससरिसनाणदाणं जे / दितिं सया भवियाणं तेऽहं झाएमि उज्झाए // 1249 // दिणमासजीवियंताई सेसदाणाइ मुणिउं ज नाणं / मुस्तितं दिति सया तेऽहं झाएमि उज्झाए // 1250 // मुत्सित दि पीडितास्तेभ्यः सारं-प्रधानं श्रुतमेव रसायन-महारोगनाशकौषधं ये महावैद्या इव गुरवो ददति तानुपाध्यायानहं ध्यायामि // 1248 // गुणा एव वनानि तानि भजन्तीति गुणवनभञ्जना ये मदा-जातिमदादयोऽष्टी ते Bएव गजा-हस्तिनस्तेषां दमने-वशीकरणे अकुशसदृशं यद् ज्ञानं तस्य दानं ये गुरवो भव्येभ्यः सदा ददति तानुपाध्यायान् अहं ध्यायामि // 1249 // शेषदानानि दिनमासजीवितान्तानि 'मुणित्वा' ज्ञात्वा ये गुरवः सदा मुक्त्यन्तं ज्ञानं ददति, तान् उपाध्यायानहं ध्यायामि, दिनं च मासश्च जीवितं च-दिनमासजीवितानि तेषु अन्तो येषां तानि शेपदानानि सन्ति इति ज्ञात्वा मुक्तौ अन्तो यस्य तत् मुक्त्यन्तं ज्ञानं-श्रुतज्ञानदानं ये ददति तानहं ध्यायामीतिभावः // 1250 // . १२४८–परम्परित रूपकमलङ्कारः १२५०-स्पष्टम् /