________________ पुवपओग असंगा बंधणछेया सहावतो वावि / जेसिं उड्ढा हु गइ ते सिद्धा दिंत मे सिद्धिं // 1230 // ईसीपब्भाराए उवरि खलु जोयणमि लोगते / जेसिं ठिई पसिद्धा ते सिद्धा दिंतु मे सिद्धिं // 1231 // जे अ अणंता अपुणब्भवा य असरीरया अणायाहा / दसणनाणुवउत्ता ते सिद्धा दितु मे सिद्धि // 1232 // तथा स्वभावतो वापि धूमवत् , येषां ऊर्ध्वा गतिः प्रवर्तते ते सिद्धा मे सिद्धि ददतु // 1230 // ईषत्प्राग्भारायाः-सिद्धिशिलाया उपरि खलु-निश्चयेन एकस्मिन् योजने लोकान्तोऽस्ति, तत्र येषां स्थितिः-अवस्थानं प्रसिद्धमस्ति ते सिद्धा मे सिद्धि ददतु // 1231 // चः पुनः येऽनन्ताः, पुनरपुनर्भवाः न विद्यते पुनर्भवो येषां ते तथा, पुनरशरीरका-न विद्यते शरीरं येषां ते, तथा पुनरनाबाधा-न विद्यते आबाधा-पीडा येषां ते तथा, पुनर्दर्शनं च दर्शनज्ञाने तयोरुपयुक्ता दर्शनज्ञानोपयुक्ताः, येषां प्रथमसमये ज्ञानोपयोगो द्वितीयसमये दर्शनोपयोगोऽस्ति, ते सिद्धा मे सिद्धिं ददतु // 1232 / / १२३०-अत्र सिद्धानामूर्ध्वगतिकत्वेन साधम्र्येण धनुर्भुक्तबाणादिसादृश्यवर्णनादुपमालङ्कारः / १२३१-१२३२-सिद्धस्वरूपावस्था तत्त्वोपदेशदानवर्णनपरे द्रष्टव्ये /