________________ इच्चाइ नमुक्कारे भणिऊण नरेसरो गहीरसरं / सकत्थयं भणित्ता नवपयथवणं कुणइ एवं // 1204 // उप्पन्नसन्नाणमहोमयाणं, सपाडिहेरासणसंठिआणं / सद्देसणाणंदियसन्जणाणं, नमो नमो होउ सया जिणाणं // 1205 // CS55%Est इत्यादि नमस्कारान् भणित्वा नरेश्वरो-राजा श्रीपालो गम्भीरः / स्वरो यत्र कर्मणि तद्यथा स्यात् तथा शक्रस्तवं भणित्वा एवं-वक्ष्यमाणप्रकारेण नवपदानां संस्तवनं करोति // 1204 // तथाहि-उत्पन्नं यत्सज्ज्ञानं केवलज्ञानं तदेव महः-तेजस्तत्स्वरूपमेषामिति उत्पन्नसज्ज्ञानमहोमयास्तेभ्यः, पुनःप्रातिहाय-छत्रचामरादिभिः सह वर्चते यत्तत्सप्रातिहार्य ईदृशं यत् आसनं-सिंहासनं तत्र सं-सम्यक् प्रकारेण स्थितेभ्यः, पुनः सद्देशनयासद्धर्मोपदेशेन आनंदिताः सञ्जनाः-सत्पुरुषा यैस्ते तथा तेभ्यः, ईदृशेभ्यो जिनेभ्यः-अर्हद्भ्यः सदा नमो नमो भवतु, नित्यं पुनः पुनर्नमस्कारोऽस्तु इत्यर्थः // 1205 // आनन्दरमा-परमानन्दलक्ष्मीस्तस्या आलयानिवासास्तेभ्यः पुनरनन्तं चतुष्कं ज्ञानदर्शनसम्यक्त्वाकरणवीर्यचतुष्टयं येषां ते तथा तेभ्यः सिद्धेभ्यो नमो 1204-" अत्र गहीरसरं" अद्यापि शक्रस्तवस्य गभीरस्वरेण करणीयुता व्यज्यते / 1205 -अत्र छेकानुप्रास वृत्यनुप्रासप्राचुर्यस्यापि रसोदोघे क्षत्यभावादलङ्कारता न वार्यते /