________________ साहुपए पुण सामे समयमयं पंचरायपकं / सगवीसइरिद्वमणि भत्तीए गोलयं ठविअं॥११९०॥ सेसेसु सिअपएसुं चंदणसिअगोलए ठवइ राया। सगसहिगवन्नसयरिपन्नमुत्ताहलसमेए // 1191 // साधुपदे पुनः सह मृगमदेनेति समृगमदं-कस्तूर्या लिप्तमित्यर्थः, पुनः पञ्चभिः राजपट्टैः-चैराटरत्नरको-भूषा यस्य तत्तथा, यद्वा पञ्च राजपट्टा अङ्के--उत्सङ्गे अर्थान्मध्ये यस्य तत्तथा, पुनः सप्तविंशतिः रिष्ठमणयः-श्यामरत्नविशेषा यस्मिस्तत्तथाभूतं गोलकं भक्त्या स्थापितम् , पञ्चमहाव्रताऽपेक्षया पञ्च राजपट्टाः सप्तविंशतिगुणाऽपेक्षया तावन्तो रिष्ठमणय इति // 1190 // शेषेषु दशनादिषु चतुर्ष सितपदेषु-श्वततया व्यवस्थापितेषु पदेषु राजा श्रीपालः चन्दनेन सितानिधवलानि गोलकानि स्थापयति, कीदृशानि गोलकानि ?-सप्तषष्टथा 67 एकपञ्चाशता 51 सप्सत्या 70 है पञ्चाशता 50 च मुक्ताफलः समेतानि-भृतानि, अयं भावः-दर्शनादिपदेषु भेदापेक्षया क्रमेगैतावन्ति मुक्ताफलानि गोलकेषु-भृतानि, यतः सम्यग्दर्शनस्य चउसद्दहण तिलिङ्गमित्यादिकाः सप्तषष्टिभैदाः, ज्ञानस्य स्पर्श ११९०-अत्र 'सामेसमदमयं' इत्यादौ छेकानुप्रासोऽलङ्कारः / १९९१-११९२-स्पष्टे /