________________ PERS REARRAI तो भणइ मुणिवरिंदो भद्दे ! पावं कयं अणेण घणं / जं गुणिणो उवघाए सव्वगुणाणंपि उवधाओ॥ 1138 // तहवि कयदुक्याणवि जियाण जइ होइ भाव उल्लासो। ता होइ दुक्याणं नासो सव्वाणवि खणणं // 1139 // भावस्तुल्लासकए अरिहाइपसिद्धसिद्धचक्कस्स / आराहण मुणीहिं उवइटुं भव्वजीवाणं // 1140 // ततो मुनिवरेन्द्रो भणति-हे भद्रे ! अनेन--राज्ञा घन-सान्द्रं पापं कृतम् , कथमित्याह--यद्--यस्मात्का रणात् गुणिनी-गुणवतः पुरुषस्य उपघाते-विनाशे कृते सति सर्वेषामपि गुणानां उपघातो भवति // 1138 // तथापि कृतं दुष्कृतं-पापं यैस्ते कृतदुष्कृतास्तेषामपि जीवानां यदि भावोल्लास:- शुभपरिणामविवृद्धिर्भवति तत्-तहि सर्वेषामपि दुष्कृतानां क्षणेन नाशो भवति // 1139 / / भावस्य उल्लासकृते--विवृद्धिनिमित्तं अहंदादिभिः पदैः प्रसिद्धसिद्धचक्रस्य आराधनं भव्यजीवेभ्यो मुनिभिः उपदिष्टम् // 1140 // / ११३८-अनेन गुणोपघातापेक्षया गुणवदुपधाते महदन्तरं दृष्टं भवति फलोपघातावृक्षोपघात दुवेति बोदव्यम् / १९३९-भावोल्लासस्य दुष्कृतविनाशे सर्वतोऽधिकं महत्त्वं व्यज्यते / ११४०-निरुक्तमाहात्म्यभावोल्लासस्यापि कारणतया सिद्धचक्राराधनस्य कथनात सर्वयथायथं तदाराधनस्य कर्तव्यता गम्यते /