________________ बागकता सिरिसिरि 02.0 // जस्थ अकयावराहा मया वराहाइणोऽवि निन्नाहा / मारिज्जति वराया सा सामिअ ! केरिसी नीई॥१११२॥ हंतूण परप्पाणं अप्पाणं जे कुणंति सप्पाणं / अप्पाणं दिवसाणं कए अनासंति अप्पाणं // 1113 // भीषणशस्त्रकरास्तैस्तुरगारूढैः-अश्वारूढेनरर्यन्नश्यन्तोऽपि शशका-जन्तविशेषा हन्यन्ते-मार्यन्ते स किल कः क्षत्रियाणां आचारः 1, न कोऽपीत्यर्थः // 1111 // यत्र नीतिमार्गे न कृतोऽपराधो यस्तेऽकृतापराधा मृगा-हरिणा वराहादयः-शूकरादयोऽपि नि थाअनाथा वराका-दुर्बला जीवा मार्यन्ते सा स्वामिन् ! कीदृशी नीतिः // 1112 // परात्मानं-परजीवं हत्वा ये जीवास्तन्मांसभक्षणेन आत्मानं सपाण-सबलं कुर्वन्ति ते दुष्टा अल्पानां-स्तोकानां दिवसानां कृते च-निमित्तं १११२-'अपराधिनो दण्डनीयाः' इति नीतिमार्गस्य प्रसिद्धत्वेऽपि अनपराधिमारणं नीतिविरुद्धमिति भवता सर्वथाऽकार्यमेवेदमिति व्यज्यते / १११३-णकारस्यासकृदावृत्त्या प्रत्यनुप्रासः 'प्पाण' इति व्यजनसमुदयस्यावृत्तौ कर्थ नच्छेकानुप्रास इति न भ्रमितव्यम् , सकृदावृत्तौ तत्प्रसरस्य विनिर्णयात् 'छेको व्यञ्जनसंघस्य सकृत्साम्यमनेकधा' इति साहित्यदर्पणोक्तेः। // 2.. "