________________ वालकदा सिरिसिरि // 170 // वच्छे ! परचक्कणं नयरी परिवेढिया समतेणं / हल्लोहलिओ लोओ किं किं होही न याणामि ? // 934 // वच्छस्स तस्स देसंतरंमि पत्तस्स वच्छर जायं। वच्छे ! कावि न लन्भह अज्जवि सुद्धी तुह पियस्म // 935 // पभणेइ तओ मयणा मा मा मा माइ ! किंपि कुणसु भयं / नवपयशाणंमि मणे ठियंमि जं हुंति न भयाइं / / 936 // वत्से ! परचक्रेण-परसैन्येन नगरी समन्तेन-सर्वासु दिक्षु परिवेष्टिताऽस्ति, लोकः सर्वोऽपि हल्लोहलितो-व्याकुलीभृतोऽस्ति, अनुकरणशब्दोऽय, अथ कि ? किं ? भविष्यतीति न जानामि // 934 // तस्य वत्सस्यमत्पुत्रस्य देशान्तरे प्राप्तस्य वत्सरं-एकं वर्ष जातं, हे वत्से ! अद्यापि तव प्रियस्य-त्वद्भर्तुः कापि शुद्धिन लभ्यते, उदन्तलेशोऽपि न लब्धः इत्यर्थः॥९३५ // ततः-तदनन्तरं मदनसुन्दरी प्रकर्षण भणति, हे मातर्मा मा मा किमपि भयं कुरुष्व, यद्-यस्मात्कारणात् नवपदध्याने मनसि स्थिते सति भयानि न भवन्ति // 936 // ९३४-अत्र नगरजनस्य व्याकुलीभावे परचक्रवेष्टितत्वस्य कारणतयोपादानात्काव्यलिङ्गमलङ्कारः / ९३५-अत्र 'वच्छस्स तस्स पत्तस्स' इति स्सेत्यस्य त्रिवार मुक्त्या न च्छेकानुप्रासः किन्तु वृत्त्यनुप्रास पवेति पूर्वोदीरितमवसेयम् / ९३६-स्पष्टम् / // 170 //