SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ निद्राऽथाऽगात्प्रवर्त्तिन्या, मृगावत्यास्तु भावतः । मिथ्यादुष्कृतकारिण्या, जज्ञे केवलमुज्ज्वलम् ॥७॥ सर्पव्यतिकरेणाऽथ, प्रबुद्धा चन्दना तदा । अवाप केवलज्ञानं, क्षमयन्ती मृगावतीम् ॥८॥ अत्रो भयोरपि उपशान्तत्वेनाऽऽराधकत्वं, तस्मादेवं क्षामणं कार्य, न पुनः कुम्भकारक्षुल्लकवत् द्रव्यक्षामणं कार्य, तच्चैवं काणीकुर्वन् कुलालेन, क्षुल्लो भाण्डानि कक्करैः । वारितो वक्ति भो भद्र ! मिथ्यादुष्कृतमस्तु मे ॥ १९ ॥, पुनः पुनस्तथाकारे, कर्णमोटनपूर्वकम् । सकर्करकराभ्यां स कुम्भकारेण शिक्षितः ॥२॥ पीडयेहमिति तेनोक्ते मिथ्यादुष्कृतदायिना षट्पदी इति ॥५९ ॥ वासावास प० कप्पइ निग्गंथाण वा २ तओ उवस्सया गिन्हित्तए तं वेउधिया पडिलेहा साइज्जिया पमजणा ॥ ६० ॥ व्याख्या- ' तओ उवस्सया ' इत्यादि वर्षासु उपाश्रयास्त्रयो ग्राह्याः, जन्तुसंसक्त्यादिभयात्, तमितिपदं तत्रेत्यर्थे सम्भाव्यते, वेउब्विया पुनः पुनः पडिलेहाप्रेक्षणं तत्र त्रिषु उपाश्रयेषु द्वौ पुनः पुनः प्रतिलेख्यौ प्रेक्ष्याविति भावः, साइज्झिआ पमज्जण त्ति आर्षे 'साइज्जि धातुरास्वादने' ततः उपभुज्यमानो य उपाश्रयः 'स कयमाणे कडे'त्ति न्यायात् 'साइजिओ' त्ति भव्यते तत्सम्बन्धिनी प्रमार्जनाऽपि साइज्झिया
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy