________________
समाचारो
कल्प प्रदीपिका ॥ २२॥
व्याख्या-वासावासमित्यादितः....उवसमसारंखु सामण्णमित्यन्तम्, तत्र इह प्रवचने अथैव पर्युषणादिने कक्खड:-उच्चैः शब्दः कटुको-जकारमकारादिरूपो विग्रहः-कलहः समुत्पद्यते, शैक्षोऽवमरात्रिका रात्निकं-रत्नाधिकं, यद्यपि रानिकः प्रथमं सामाचारीवितथकरणेऽपराद्धस्तथापि शैक्षेण रात्निकः क्षामणीयः, अथ शैक्षोऽपुष्टधर्मा तदा रात्निकस्तं प्रथम क्षामयति, तस्मात् क्षमितव्यं स्वयमेव क्षामयितव्यः परः अव्यक्तत्वान्नपुंसकत्वं । तथा उपशमयितव्यं-आत्माना उपशमः कर्तव्यः, उपशामयितव्यः परः-जं अजिअंचरितं, देसूणाए विपुव्वकोडीए । तं पि कसाइअमित्तो, हारेइ नरो मुहुत्तेणं ॥१॥” इत्याद्युपदेशः सम्मुइ त्ति रागद्वेषरहितता तत्पूर्व या सम्पृच्छना सूत्रार्थेषु ग्लानाः ग्लानानां वा तहहुलेन भवितव्यं, रागद्वेषौ विहाय येन सहाऽधिकरणमासीत् तेन सह सूत्रार्थेषु सम्प्रश्नः कार्यः तदुदन्तश्च सोढव्या, यद्येकतरस्य क्षमयतोऽपि यद्यको नोपशाम्यति तदा किमित्याह-जो उवसमइ इत्यादि यः उपशाम्यति उपशमयति वा कषायान् तस्याऽस्त्याराधना ज्ञानादीनां, विपर्ययः स्पष्ट एव, सामन्नं ति श्रमणभावः उपशमसारं-उपशमप्रधानं खु-निश्चये उपशमे मृगावत्युदाहरणं तच्चैवम्-एकदा श्रीवीरः कौशाम्ब्यां समवमृतः तत्र सविमानौ चन्द्राकौं नन्तुं प्राप्तो, चन्दना च दक्षत्वादस्तसमयं ज्ञात्वा स्वस्थाने गता, मृगावती तु चन्द्रार्कयोर्गतयोः ध्वान्ते विस्तृते बिभ्यती साव्यालयेऽगात् । तत्रेर्यापथिकी प्रतिक्रम्य तदनु शयनस्थां प्रवर्तिनीं नत्वा क्षम्यतामयमपराधः इत्युक्तवता प्रति चन्दनाऽपि मृदु वाग्भिराह
| ૨