SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्यकनियुक्त्यादिष्वस्तीति किंम्भूतं गच्छाचारं उत्तम-प्रधानं एतदुक्तानुष्ठानपालनपरायणानामवश्यं स्वर्गसुखावाप्तिनिबन्धनत्वात् , तथा 'सुअनिस्संद 'ति सिद्धान्तोपनिषद्भुतं तथा मुत्तमम्-उत्तमोत्तमं एतत्प्रणीताचारसम्यक्समाचरणचतुरान्तस्करणवाकायानामवश्यमेव चतुर्वर्गप्रवेकापवर्गः शर्मसंसर्गसंसिद्धिहेतुखात् , नन्वत्राध्ययने साधव एवाधिकारिण उक्ताः, किं न श्राद्धादयः ? उच्यते-आगमे तेषां वाचनाप्रदानप्रतिषेधात् । उक्तश्च-"जे भिक्खु वा भिक्खूणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ वायंतं वा साइज्जइ” इत्यादि निशीथसूत्रस्यैकोनविंशतितमोद्देशकमान्ते अस्य चूर्णि:-"जे अण्णउत्यियं | वा गारत्थिय वा इत्यादि जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा वायणं पडिच्छईत्यादि. एवं पासत्ये दो सुत्ता ओसण्णे दो कुसीले दो संसत्ते दो णितिए दो एतेसिं वायणं देइ पडिच्छइ भावतेणो वा सन्चेसु अहाच्छंदवज्जिएसु चउलहुं || अहवा अत्थे चउगुरुं, अहाछंदे सुत्ते चउगुरुं अत्थे छल्लहं इत्यादि, तथाभावे कारणे वाएजावि 'पञ्चज्जाएगाहा' गिहि अण्णपासंडिं वा पचज्जाभिमुहं सावगं वा छज्जीवणियति जावमुत्तओ, अत्यओ जावपिंडेसणा एस गिहत्यादिसु अववादो इत्यादि । इत्यनुष्टुप् छन्दः ॥ १३६ ॥ अथ साधुसाध्वीनामेतत् प्रकीर्णकनिर्णीताचारयथावत्समाचरणोपदेशं तत्समाचरणफलगर्भ प्रकटयन्नाहगच्छायारं सुणित्ताणं, पठित्ता भिक्खुभिक्खुणी। कुणंतु जं जहा भणियं, इच्छंता हियमप्पणो ॥१३७॥ व्याख्या-'गच्छाया०' एतत् 'गच्छायारं 'ति गच्छाचाराभिधप्रकीर्णकं श्रुत्वा-गुरुमुखाद्विधिना निशम्य, णमिति
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy