________________
प्रभावाच नानाविधा लब्धयः-ऋद्धिविशेषा भवन्ति, तत्र प्रकृष्टज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषेण वस्तुद्धत्यान्तर्महर्तन सकलश्रुतोदध्यवगाहनावदातमनसो मनोबलिनः ।अन्तर्मुहूर्तेन सकलश्रुतवस्तूचारणसमर्था वाग्बलिना, अथवा पदवाक्यालझारोपेतां वाचमच्चैरुच्चारयन्तो अविरहितवाक्क्रमा अहीनकंठा वाम्बलिनः । वीर्यान्तरायक्षयोपशमाविर्भतासाधारणकायबलत्वात प्रतिमया अवतिष्ठमानाः श्रमलमविरहिता वर्षमात्रप्रतिमाधरा बाहुबलिप्रभृतयः कायबलिनः ३ तथा प्रकृष्टतावरणवीर्यान्तरायक्षयोपशमाविर्भूतासाधारणमहापार्टिलाभा अनधीतद्वादशाङ्गचतुर्दशपूर्वा अपि सन्तो यमर्थ चतुर्दशपूर्वी निरूपयति तस्मिन् विचारकृच्छ्रेप्यर्थेऽतिनिपुणप्रज्ञाः प्राज्ञश्रमणाः, अन्ये अधीतदशपूर्वा राहिणीमज्ञहयादिमहाविद्यादिभिरङ्गष्टप्रसेनिकादिभिरल्पविद्यादिभिश्चोपनतानां भूयसीनामृद्धीनामवशगा विद्यावेगधारणाविद्याधरश्रमणा इत्यादि । तथा भवसिद्धिअपुरिसाणं, एयाओ हुंति भणिअलद्धीओ। भवसिद्धिअमहिलाणवि, जत्तिय जायंति ते बुच्छ ॥१॥" अरिहंत १ चक्कि २ केसव ३-बल ४ संभिन्ने य ५ चारणे ६ पुवा ७ । गणहर ८ पुलाय ९ आहारगं च १०, न ह भवियमहिलाणं॥२॥ अभवियपुरिसाणं पुण, दस पुबिल्ला उ केवलित्तं च ११ । उज्जुमई १२ विउलमई १३ तेरस पयान ॥३॥ अभवियमहिलाणं पुण, एयाउ न टुति भणियलद्धीओ १३ । महुखीरासवलद्धीवि, नेव सेसा उ अविरुदाला , इति लब्धिस्वरूपं प्रवचनसारोद्धार-योगशास्त्रयाद्यवलोक्य लिखितमिति, गाथाछन्दः॥७२॥ अथ सन्निध्यायनेक. दोपपरिवर्जनं गुणप्रतिपत्तिं चासाधारणां प्रतिपादयन गाथात्रयेण गच्छत्वमेव समर्थयतिजत्थ यसनिहिउक्खड-आहडमाईण नामगहणे वि । पूईकम्मा भीता, आउत्ता कप्पतिप्पेसु ॥७॥
॥७
॥