SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला लेखकप्रशस्तिः । ॥७७२॥ सोदरी भगिनी चास्य, शान्तापीष्टसतीव्रता । सदुत्तरापि सर्वेषां, दक्षिणा घांउकाभिधा ॥१९॥ राजिन्यथाङ्गजमसूत घराकलङ्कम् , पूर्णप्रसादकतनामकमिष्टबन्धुम् । भ्रातुः प्रियं शरणिगस्य नमस्यनम्रम् , रामस्य लक्ष्मणमिव प्रसरत्सुमित्रम् ॥२०॥ (बसन्ततिलका) तनया पूर्बादेवी च, तस्याः समुदपद्यत । सदाम्भस्थाननिरता, हंसीव मृदुवादिनी ॥२१॥ अथान्यदानन्दमहत्तमोऽसौ, शुश्राव सम्यग् गुरुसभिधाने । धर्म श्रुतज्ञानचरित्ररूपं, मोक्षार्थिसम्पादितमोक्षमुच्चैः॥२२॥ तत्रापि विज्ञानविनाकृतायाः, साफल्यमाहुर्न जिनाः क्रियायाः । तदानमादाक्त एव सर्व-दानेषु शंसन्ति पठन्ति चैवं ॥२३॥ ये ज्ञानदानमपरं परिपाल्य यद्वा, सत्पुस्तकादि च विलेख्य समाचरन्ति । ते नष्टमोहतिमिराः फिल केवलेन, सम्यग् विलोक्य भुवनं विभवो भवन्ति ॥२४॥ न ते नरा दुर्गतिमाप्नुवन्ति, न चान्धता पुद्धिविहीनतां च । न मूकतां नैव जडस्वभावं, ये लेखयन्तीह जिनस्य वाक्यम् ॥२५॥ श्रुत्वेदमिमा संवेग-रङ्गशालामलीलिखदम्याम् । निजपल्या राजिन्याः, पुण्याय महत्तमानन्दः ॥२६॥ प्रासादः सिद्धिरहन्नृपतिरनुपमा तत्प्रिया ज्ञानलक्ष्मी:-नीतिः सिद्धान्तगीः श्री-व्ययकरणसमौ साधुसबस्थधम्मौ । कारा १घादिरादीनषिषु गुणिषु तु, स्वःशिवश्रीनियोगः, साम्राज्यं यावदित्थं प्रतपतु भुवने पुस्तकस्तावदेषः ॥२७॥ १ आदीनविषु = क्लिष्टेषु = क्लेश' प्राप्तेषु । ॥७७२॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy