________________
HARREARCA-NCREAGER.
क्षयजन्यतावच्छेदक इति प्रतिपत्तव्यं । न च अथेनैव घियां विशेष' इति न्यायादर्थाविशेषे ज्ञाने विषयताविशेषासिद्धिरिति शङ्कनीयं, अर्थेऽपि ज्ञानानुरूपस्वभावपरिकल्पनात् , अर्थाविशेषेऽपि परैः समूहालम्बनाद्विशिष्टज्ञानस्य व्यावृत्तये प्रकारिताविशेषस्याभ्युपगमाच्च । न हि तस्य तत्र भासमानवैशिष्टयप्रतियोगिज्ञानत्वमेव निरूपकविशिष्टज्ञानत्वं वक्तुं शक्यं, दण्डपुरुषसंयोगा इति समूहालम्बनेऽतिप्रसङ्गात् । न च भासमानं यद्वैशिष्टयप्रतियोगित्वं तद्वत् ज्ञानत्वमेव तथा, दण्डपुरुषसंयोगप्रतियोगित्वानुयोगित्वानीति ज्ञाने दण्डविशिष्टज्ञानत्वापत्तेः । न च स्वरूपतो भासमानमित्याधुक्तावपि निस्तारः, प्रतियोगित्वादेरतिरिक्तत्वे प्रकारित्वादेाननिष्ठस्य कल्पनाया एव लघुत्वात् । अनतिरेके तु दण्डदण्डत्वादिनिर्विकल्पकेऽपि दण्डादिविशिष्टज्ञानस्वापत्तेः। एतेन 'स्वरूपतो भासमानेन वैशिष्टयेन गर्भितलक्षणमपि'अपास्तम्, संयुक्तसमवायादेः सम्बन्धत्वे स्वरूपत इत्यस्य दुर्वचत्वाच्च । तस्मात्पराभ्युपगतप्रकारिताविशेषवदाकारविशेषः स्याद्वादमुद्रयाऽर्थानुरुद्धस्तदननुरुद्धो वा ज्ञाने दर्शनशन्दव्यपदेशहेतुरनाविलस्तत्समय एवार्थज्ञानयोरविनिगमेनाकाराकारिभावस्वभावाविर्भावादित्येष पुनरस्माकं मनीषोन्मेषः ॥ तस्माद्वयात्मक एक एव केवलावबोध इति फलितं स्वमतमुपदर्शयति-"साईअपज्जवसियं, ति दोवि ते ससमयं हवइ एवं।।परतित्थियवत्तव्यं, च एगसमयंतरुप्पाओ ॥२-३१॥" साद्यपर्यवसितं केवलमिति हेतो· अपि ज्ञानदर्शने ते उभयशब्दवाच्यं तदिति यावत् । अयं च स्वसमयः स्वसिद्धान्तः। यस्त्वेकसमयान्तरोत्पादस्तयोभण्यते, तत्परतीर्थिकशास्त्रं, नाहेद्वचन, नयाभिप्रायेण प्रवृत्तत्वादिति भावः । 'एवम्भूतवस्तुतत्वश्रद्धानरूप' सम्यग्दर्शनमपि सम्यग्ज्ञानविशेष एव, सम्यग्दर्शनत्वस्यापि सम्यग्ज्ञानत्वव्याप्यजातिविशेषरूपत्वाद्विषयताविशेषरूपत्वाद्वेत्याह-"एवं जिणपण्णत्ते, सद्दहमाणस्स भावओ भावे ॥ पुरिसस्सा
PUNAULOSECRECASUAL
५॥ केवलज्ञान
निरूपणे
केवलज्ञानद४ शनद्वयात्मक है एक एव केवलोपयोग इति
निश्चितश्री सिद्धसेन दिवाकर
मतफलितप्रदर्शनम् ॥