________________
GARRERSORRECEN
यरूपत्वेऽपि छाअस्थिकोपयोगस्यापरिपूर्णार्थग्राहित्वान्न मनःपर्यायज्ञाने दर्शनसम्भव इत्यप्याहुः। किं च-"मइसुअनाणणिमित्तो,
कवलज्ञान: छउमत्थे होइ अत्थउवलंभो ॥ एगयरंमि वि तेसिं, ण दसणं दसणं कत्तो ॥२-२७॥" मतिश्रुतज्ञाननिमित्त छद्मस्था
निरूपणे नामर्थोपलम्भ उक्त आगमे । तयोरेकतरस्मिन्नपि न दर्शनं सम्भवति । न चावग्रहो दर्शन तस्य ज्ञानात्मकत्वात,
केवलज्ञानततः कुतो दर्शनं, नास्तीत्यर्थः । ननु श्रुतमस्पृष्टेऽर्थे किमिति दर्शनं न भवेत्तत्राह-"जं पच्चक्खग्गहणं, ण इंति सुअनाणसमिया
मदर्शनोपयोगअत्था ॥ तम्हा दंसणसदो, ण होइ सयले वि सुअनाणे॥२-२८॥" यस्माच्छ्रतज्ञानप्रमिता अर्थाः प्रत्यक्षग्रहणं न यान्ति,
४ प्रसङ्गे मतिअक्षजस्यैव व्यवहारतः प्रत्यक्षत्वात् । तस्मात्सकलेऽपि श्रुतज्ञाने दर्शनशब्दो न भवति । तथा च ' व्यञ्जनावग्रहा- ज्ञानादिदृष्टाविषयार्थप्रत्यक्षत्वमेव दर्शनत्वम्' इति पर्यवसन्नम् । प्रत्यक्षपदादेव श्रुतज्ञानवदनुमित्यादेावृत्तौ परोक्षभिन्नत्वे सतीति विशेषणं
न्तेनतत्त्वन देयम् "मुत्तूण लिंगओ जं" इत्युक्तस्याप्यत्रैव तात्पर्य द्रष्टव्यम् । इत्थं चाचक्षुर्दर्शनमित्यत्र नञः पयुदासार्थकत्वादचक्षु
प्ररूपणम् ॥ दर्शनपदेन मानसदर्शनमेव ग्राह्य, अप्राप्यकारित्वेन मनस एव चक्षुःसदृशत्वान्न घ्राणदर्शनादीति सर्वमुपपद्यते । तथाचावधि दर्शनमपि कथं सङ्गच्छते, तस्य व्यञ्जनावग्रहविषयार्थग्राहित्वेऽपि व्यवहारतः प्रत्यक्षत्वाभावादित्याशङ्कायाः प्रत्यक्षपदस्य व्यवहारनिश्चयसाधारणप्रत्यक्षार्थत्वात् , अवधिज्ञानस्य च नैश्चयिकप्रत्यक्षत्वाव्याहतेः परिहारमभिप्रयन्नाह-"जं अप्पुट्ठा भावा, ओहिन्नाणस्स होंति पञ्चक्खा ॥ तम्हा ओहिनाणे,दसणसद्दो वि उवउत्तो॥२-२९॥ स्पष्टा। उपयुक्तः लब्धनिमित्तावकाशः।।
केवलज्ञानेऽपीदं लक्षणमव्याहतमित्याह-"जं अप्पुढे भावे, जाणइ पासइ य केवली णियमा ॥ तम्हा तं नाणं दं-सणं च अविसेसओ सिद्धं ॥२-३०॥" यतोऽस्पृष्टान भावान्नियमेनावश्यन्तया केवली चक्षुष्मानिव पुरःस्थितं जानाति
SATARRIERSPECIAL