________________
साविकरणं श्रीज्ञाना
वप्रकरणम् ॥
तववक्षाधीनावित्यतिशत चेत्, न, प्रनिन्तिानस्य तत
RECAPES
सन्निकर्षोऽपि तत्र संस्कारोबोधकसदृशदर्शनादिहेतुतयोपक्षीयते, तदिदमभिप्रेत्योक्तं " अनुभूततया परोक्षमप्येकं साक्षादिवाध्यवस्यतः पश्यतश्चापरं प्रत्यभिज्ञैवेयमिति"। अन्यथा प्रत्यक्षत्वपरोक्षत्वयोः साङ्कर्यप्रसङ्गाज्जातेरव्याप्यवृत्तित्वे स्पष्टताया विषयताविशेषरूपत्वे वा किञ्चिदशे परोक्षत्वं किश्चिदशे च तस्याः प्रत्यक्षत्वम्, साक्षादिवेत्यस्य साक्षात्कारसामग्रीसम्पत्ताविवेत्यर्थः, अनुमानादेः सर्वथा परोक्षत्वं चासनिकृष्टांश एव, एवं च प्रत्यभिज्ञात्वमपि तदेवेति विषयताविशेष एच मिथोऽन्तर्भावानन्तर्भावौ च विवक्षाधीनावित्यपि वदन्ति । ननु तथापि संशयादीनां लक्ष्यत्वे संशयानध्यवसाययोरस्पष्टयोरव्याप्तिः, अलक्ष्यत्वे च स्पष्टे भ्रमेऽतिव्याप्तिरिति चेत्, न, प्रतिनियतवर्णसंस्थानाद्याकाराभिव्यङ्गथायाः स्पष्टतायास्तत्राभावात्तत्र स्पष्टताप्रतीतेभ्रमत्वात, न च भ्रान्तभ्रान्तिज्ञसाङ्कर्यम्, भ्रान्तिज्ञानस्य तत् स्पष्टतांशे भ्रमत्वेऽपि विषयांशेऽतथात्वात्, न च सांव्यवहारिकावग्रहेऽव्याप्तिस्तत्र प्रतिनियतमनुष्यत्वाद्याकाराभिव्यङ्गयस्पष्टताया निरपायत्वात् । नन्वेवं सांव्यवहारिकत्वं यदि व्यवहारनयाभिमतत्वं तदाऽतिप्रसङ्गोऽवध्यादावपि स्पष्टत्वेन तद्व्यवहारात्, अथापारमार्थिकत्वं तदपि तथा कास्न्यैनास्पष्टत्वरूपस्य तस्य विकलप्रत्यक्षेऽभावात् क्षायोपशमिकत्वरूपस्यापि तस्य तथात्वात् परजन्यत्वस्यापि तथात्वाद् । वस्तुतोऽवध्यादेर्गुणजन्यत्वे च मतिश्रुतयोरपि लब्धीन्द्रियगुणजन्यत्वात्पारमार्थिकगुणजन्यत्वाभावस्योभयत्र तुल्यत्वात् । अथेन्द्रियव्यवहितात्मजन्यत्वं तदिति चेत्, न, कुडथादेर्घटस्येवेन्द्रियस्यात्मनोऽव्यवधायकत्वादिति चेत्, न, इन्द्रियजन्यस्य सांव्यवहारिकत्वेनावधिमनःपर्याययोस्तु विकलप्रत्यक्षत्वेन परिभाषणात्, कथमित्थमिति चेत्, न, स्वतन्त्रपरिभाषाया अपर्यनुयोज्यत्वादाभोगकरणे परानपेक्षत्वं वाऽपारमार्थिकत्वविवक्षायां तन्त्रमिति दिग् ॥३।। परोक्षलक्षणमाह
स्पष्टताकक्षणस्य भ्र. मेऽतिव्याप्तेरवग्रहेऽव्याप्तेश्च परि. हारः सांव्यवहारिकत्वस्य प्रश्नप्रतिविधा
नाम्यां निर्णयः॥
mardan