________________
पर्यायवाद्यभिमताभ्युपगमे तु तत्र वस्तुसम्बन्धिवतमानप्रकारकत्वावान्छिताव्यसम्मेदेन
RBACANCERSHe
दिना-"प्रार्थनाप्रतिघाताभ्यां, चेष्टन्ते द्वीन्द्रियादयः॥ मनःपर्यायविज्ञानं, युक्तं तेषु न चान्यथा ॥१॥" इति । न चैवं ज्ञानस्य पञ्चविधत्वविभागोच्छेदादुत्सूत्रापत्तिा, व्यवहारतश्चतुर्विधत्वेनोक्ताया अपि भाषाया निश्चयतो द्वैविध्याभिधानवनपविवेकेनोत्सूत्राभावादिति दिक् (इत्याहुः) ॥ इतिमनःपर्यायज्ञानप्ररूपणम् ॥
"सर्वविषयं केवलज्ञानम् ॥"सर्वविषयत्वं च सामान्यधर्मानवच्छिन्ननिखिलधर्मप्रकारकत्वे सति निखिलधर्मिविषयत्वम् । प्रमेयवदिति ज्ञाने प्रमेयत्वेन निखिलधर्मप्रकारकेऽतिव्याप्तिवारणायानवच्छिन्नान्तं, केवलदर्शनेऽतिव्याप्तिवारणाय सत्यन्तं, विशेष्य| भागस्तु पर्यायवाद्यभिमतप्रतीत्यसमुत्पादरूपसन्तानविषयकनिखिलधर्मप्रकारकज्ञाननिरासार्थः । वस्तुतो" निखिल याकारवचं केवलज्ञानत्वं" केवलदर्शनाभ्युपगमे तु"तत्र निखिलदृश्याकारवचमेव",न तु निखिल याकारवचमिति नातिव्याप्तिान च प्रतिस्त्रं केवलज्ञाने केवलज्ञानान्तरवृत्तिस्वप्राकालविनष्टवस्तुसम्बन्धिवर्तमानत्वाद्याकाराभावादसम्भवः, स्वसमानकालीननिखिलज्ञेयाकारवखस्य विवक्षणात् । न च तथापि केवलज्ञानग्राह्ये आद्यक्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यताया द्वितीयक्षणे नाशो, द्वितीयक्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यतायाश्चोत्पादः, इत्थमेव ग्राह्यसामान्यविशेष्यताधौव्यसम्भेदेन केवलज्ञाने त्रैलक्षण्यमुपपादितमित्येकदा निखिलज्ञेयाकारवचासम्भव एवेति शङ्कनीयम् , समानकालीनत्वस्य क्षगगर्भत्वे दोषाभावात् , अस्तु वा निखिलज्ञेयाकारसक्रमयोग्यतावचमेव लक्षणं,प्रमाणं च तत्र'ज्ञानत्वमत्यन्तोत्कर्षववृत्ति, अत्यन्तापकर्षववृत्तित्वात,परिमाणत्ववद्' इत्याद्यनुमानमेव । न चाप्रयोजकत्वं ज्ञानतारतम्यस्य सर्वानुभवसिद्धत्वेन तद्विश्रान्तेरत्यन्तापकर्पोत्कर्षाभ्यां विनाऽसम्भवात् । न चेन्द्रियाश्रितज्ञानस्यैव तरतमभावदर्शनात्तत्रैवान्त्यप्रकर्षों युक्त इत्यपि शक्कनीयं, अतीन्द्रियेऽपि मनोज्ञाने शास्त्रार्थावधारणरूपे शास्त्रभावना- |
WिR
केवलज्ञान
निरूपये तल्लक्षणाना
मुपदर्शनं तत्रातिव्याप्त्यादिदोषोद्धार केवलज्ञाने प्रमाणोपदर्शनञ्च ॥
च तथापि केवलज्ञानग्रास इत्यमेव ग्राह्यसामान्यविशयगर्भवे दोपाभावात् पारमाणत्ववद्'इत्याद्य
ASTRA