SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ MO A अस्तित्वनास्तिस्त्वनिषेकभावतः इति, पुरोवत्वचस्यैवार्य शब्दो न शृङ्गस्य इत्यादाओ, अणुगमवरेगा पादिरिति ॥ महाराविग्रहानन्ताभावात् तत्राविद्यमान विशेषविज्ञानं सोडगा महुराइगुणत्तणओ, संखस्सेव त्ति जं न संगस्स ।। विण्णाणं सोऽवाओ, अणुगमवइरेगभावाओ ॥ २९॥ व्याख्या-मधुरस्निग्धादिगुणत्वात् शङ्खस्यैवायं शब्दो न शृङ्गस्य इत्यादि यद्विशेषविज्ञानं सोऽपायो निश्चयज्ञानरूपः, तत्र हेतुः, अनुगमव्यतिरेकभावतः इति, पुरोवर्त्यर्थधर्माणामनुगमभावात् तत्राविद्यमानार्थधर्माणां व्यतिरेकभावात्, अनुगमव्यतिरेको अस्तित्वनास्तित्वनिश्चयौ । अयं च व्यवहारार्थावग्रहानन्तरभावी अपाय उक्तः। निश्चयावग्रहानन्तरभावी तु श्रोत्रग्राह्यत्वादिगुणतः शब्द एवायं न रूपादिरिति ॥ २९० ।। अथ मतिज्ञानतुरीयभेदलक्षणां धारणा सभेदामाहतयणंतरं तयत्था-विच्चवणं जो य वासणाजोगो । कालंतरे य जं पुण-रणुसरणं धारणा सा उ ॥२९१॥ ___व्याख्या-तस्मादपायादनन्तरं यत्तदर्थादविच्यवनम्, उपयोगमाश्रित्याभ्रंशः, यश्च वासनाया जीवेन सह योगः सम्बन्धः, यच्च तस्यार्थस्य कालान्तरे पुनरिन्द्रियैरुपलब्धस्यानुपलब्धस्य वा एवमेव मनसाऽनुस्मरणं स्मृतिर्भवति, सेयं पुनस्त्रिविधाऽप्यर्थस्यावधारणरूपा धारणा विज्ञेया, वासना च तदावरणक्षयोपशमरूपा ज्ञेया॥ २९१ ॥ इदमत्रैदम्पर्य-धारणाया अविच्युतिलक्षणभेदस्य दधिोपयोगमाश्रित्याभ्युपगमादेव पराभ्युपगतनिरन्तरसमानविषयकज्ञानसन्तानलक्षणधारावाहिकज्ञानफलस्य स्थिरार्थग्रहणस्योपपत्तौ निष्प्रयोजनमेव धारावाहिकज्ञानकल्पनं, पूर्वज्ञानमुत्पाद्य व्युपरतव्यापारस्य कारणस्य पुनर्व्यापारान्तराभावेन कारणाभावाच न निरन्तरज्ञानसन्तानलक्षणधा(सप्तचत्वारिंशपत्रादिह यावद्योजितःपाठः) रावाहिकज्ञानाभ्युपगमो युज्यते न चैकापायोत्पत्तावपि सामग्रीसच्चात्पुनस्तदुत्पत्तेरवारणीयत्वात्तत्सन्तानोत्पत्ति सङ्गतेति वाच्यम्, अपायस्यापायोत्पत्तिप्रतिबन्धकत्वात्प्रागभावस्य तद्धेतुत्वाद्वा पुनस्तदुत्पत्यापत्तेरभावात्, अन्यथैकवारं घटोत्पादेऽपि सा ॥ तृतीय तरजः॥ (योजितः पाठः) मतिज्ञानलनिरूपणे अ पायस्वरूप ४ तृतीयभेदस्य धारणास्व रूपचतुर्थ |भेदस्य तद्भे दस्य च * R UMAMAL *
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy