________________
श्रीप्रवचन
परीक्षा
११ विश्रामे ॥२९४॥
KOOGHODHONGKOSHONORON
| क्रियाहेतुरिति ज्ञात्वा येन प्रथममीर्या प्रतिक्रान्ता तेन श्रावकादिना तस्यामेव क्रियायां यथास्थाने तीर्थकृदुक्तस्थाने प्रतिक्रमितव्या, ईर्यापथिकीत्यत्रापि संबध्यते इति गाथार्थः ॥४८॥ अथ यस्याः क्रियाया हेतुत्वेनादावेव प्रतिक्रान्ता तस्यामेव क्रियायां पश्चादपि यथोक्तस्थाने प्रतिक्रमितव्येत्यत्र हेतुमाह__ सच्चित्तफासमित्तं न करिस्सं जाव मे इमा किरिआ। इअ हि पइण्णावाए पुणोऽवि तस्संधणठ्ठाए ॥४९॥
यावत-यावत्कालं मे-ममेयं क्रिया तावत्सञ्चित्तस्पर्शमात्रमपि न करिष्यामीत्यमुना प्रकारेण प्रतिज्ञा-अभिग्रह विशेषः श्रावकस्य परिमितकालावच्छिन्ना साधोश्च यावज्जीवमिति तस्याः अपाये-क्षये सच्चित्तादिस्पर्शादौ जाते पूर्वप्रतिज्ञाया हानौ सत्यां तत्संधानार्थे-प्रतिज्ञापूर्तिकरणार्थं पुनरपि ईयां प्रतिक्रामति, अन्यथा समग्रमपि कालमीर्याया एव प्रसत्तेः क्रियांतरस्य व्याघात एवापघेतेति गाथार्थः ॥४९।। अथ दृष्टान्तमाह
जह तंतूहिं कुविंदो कुणमाणो साडि पुणो तंतू । तुहिजंते निउणं संघिजा जा पइण्णा से ॥५०॥ । यथेत्युदाहरणोपन्यासे, यथा तंतुमिः शाटिकाकारणैः शाटिकां कुर्बाणः कुविंदा-कोलिकलव्यतस्तंतून निपुणं यथा स्यात् तथा संधयेत्-संधानं कुर्यात् , कियत्कालं यावत् ?-'सेति तस्य कोलिकस्य प्रतिज्ञा स्यात् , शाटिकासमाप्तिं यावदित्यर्थः । अयं भावःयथा कुविंदस्तंतुमिः शाटिका कुर्वाणोऽन्तरारत्रुटिततंतून संधाय संधाय पूर्णीकरोति तथा ईर्यापूर्वकं सामायिकं कृत्वा सच्चित्तादिस्पर्शप्रतिषेधप्रतिज्ञया सामायिकादिकं पालयन् अंतरारतत्प्रतिज्ञाहानावीर्यापथिकया निजप्रतिज्ञाकारणानि संधाय २ सामायिकादिक्रियाप्रसाधको भवति, तथैव द्रव्यस्तवं कुर्खता न केनापीर्या प्रतिक्रान्ता, न वा सच्चित्तस्पर्शनिषेधप्रतिज्ञाऽपीति गाथार्थः ॥५०॥
जानOOOHOROHOROPHON
॥२९४॥