________________
श्रीप्रवचन- अर्हद्विम्बानि, एषः सर्वोऽपि भावग्रामः, एतेषां दर्शनादिना ज्ञानादिप्रमतिसद्भावात् , अत्र परः प्राह-ननु युक्तं तीर्थकरादीनां ज्ञानापरीक्षा |दिभावरत्नत्रयसंपत्समन्वितानां भावग्रामत्वं, ये पुनरसंविनास्तेषां कथमिव भावग्रामत्वमुपपद्यते ?, नैष दोषः, तेषामपि यथावस्थितविश्रामप्ररूपणाकारिणां पार्श्वतो यथोक्तधर्ममाकर्ण्य सम्यग्दर्शनलाभ उदयते, अतस्तेषामपि भावग्रामत्वमुपपद्यते, कृतं प्रसङ्गेनेत्यादि बृह. ॥११॥
| वृ०, अथ प्रतिमानां सर्वथा ज्ञानादिशून्यत्वेऽपि परेषां ज्ञानादिहेतुत्वाद् , एवं सारूपिका अपि, अविरतदेशविरतास्तु श्रावकाः खयं चारित्रपरिणामरहिता अपि सदुपदेशेन परेषां तत्परिणामहेतवो भवन्ति, एवं श्रुतदेवताऽपि स्वयं अतथाभृताऽपि चारित्रायुपष्टम्भहेतुत्वेन तस्याः तथाविधप्रार्थनाऽपि फलवत्येवेतिगाथार्थः ॥११॥ अथ जगत्प्रवृत्तिहेतुवस्तुखरूपप्ररूपणाय गाथायुग्ममाहदवाउ दव्वभावा नय भावा किंचि हुज्ज दब्वाइ। तेणेव जगपवित्ती कारणविसया फलहीणं ॥१२॥ फलजणयं खलु कारणमिह दिहं तंपि नेव फलजुत्तं । साहुसरीरा मोक्खो न सरीरं मोक्खसंजुत्तं ॥१३॥ ___ द्रव्यात् कनकादेव्यं-कनककुण्डलादिकं द्रव्यं भावश्च-तथाविधजीवादे नापरिणामविशेषः तावुभावपि भवतः, न च | भावात् किंचिद्व्यादि भवेत् , नहि तथाविधपरिणामात् किंचित्कनकादिकं संपद्यते, न वा खकीयपरिणाममात्रात् परकीयपरिणा
मोत्पत्तिः स्यात् , तेनैव कारणेन जगत्प्रवृत्तिः फलार्थिनां कारणविषया भवति, कारणं खलु इह जगति फलजनकं दृष्टमपि पुनस्त|त्कारणं फलयुक्तं नैव-नास्त्येव, कारणं खलु इह जगति फलजनकं स्यात् ,न पुनः फलयुक्तमपीतिभावः, फलयुक्तत्वे हि युगपद् द्वयोरुत्पत्तिः प्रसज्येत, तथा च कारणं कार्यात्पूर्वभावि पश्चाद्भावि च कार्यमिति सर्वजनप्रतीतिबाधा स्यात् , तत्र दृष्टान्तमाह-'साहुत्ति साधुशरीरात्मोक्षः-सर्वकर्मक्षयलक्षणसिद्धिः स्याद् , यदागमः-"अहो जिणेहिं असावजा, वित्ती साहूण देसिआ। मुक्खसाहणहेउस्स
GHOUGHORAHONGKOONG
HORGROUGHONGKONGOLGOGRORG
॥१२॥