________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१२३॥
DIGHONGHONGKONG
HONGKONGHE
DHONGKONGHONGKONGN
अवशेषाः - स्थापनाप्रमुखाः नामस्थापनाद्रव्यरूपा अर्हन्तः शेषावयवकल्पाः इति गम्यं, निजनिजक्रियासु सापेक्षा इत्यक्षरार्थः, भावा- निक्षेपचतुर्थस्त्वयं-नामस्थापनाद्रव्यभावैश्चतुर्भिरपि निक्षेपैः सामान्यत एक एवाईन् कल्प्यते, तत्र भावार्हन् उत्तमाङ्गकल्पः, शेषास्त्रयोऽपि ष्कसापेक्षता तदवयवकल्पाः, परस्परमनुगताः खस्वकार्येषु सापेक्षाः, अपेक्षा चैवं - सामान्यतोऽर्हन् विशेषत ऋषभोऽजित इत्यादिनामभिर्विना भावार्हतोऽपि सम्यग्ज्ञानध्यानादेरसंभवः, स्थापनां विना च भावार्हतोऽप्याकृत्यादिदर्शनासंभवः, आकृत्यादिदर्शनाभावे च ध्यानावलम्बनाभावः सर्वकालमर्हद्विषयकपूजादिविधेरसंभवथ स्यात्, द्रव्यमन्तरेण भावार्हतोऽप्यसंभवः, 'द्रव्यं हि भावकारण' मितिवचनाद्, एवं नामस्थापने अपि भावार्हन्तं विना कस्य क्रियेते ?, स्थापनायामप्यभिधानं भावार्हत्संबन्ध्येवेति नामस्थापनयोरपि भावार्हतोऽपेक्षा, द्रव्यार्हच्चमपि भावार्हदपेक्षयैव वक्तुं शक्यते, यदि मरीचिजीवोऽपि भावी भावार्हन्नाभविष्यत्तर्हि द्रव्यार्हद्दुद्ध्या भरतचक्रवर्ती 'जं होहिसि तित्थयरो अपच्छिमो तेण चंदामी' त्यादि ( आव ० ४२८ ) वचोभिः - स्वाभिप्रेतं भक्तिवन्दनं कथं प्राकटिष्यत् १, कथं वाऽष्टापदे तत्प्रतिमामप्यकारयिष्यत्, कारितवांश्च तत्प्रतिमां, यदागमः- “धूभसय भाउआणं चउवीसं चैव जिणहरे कासी । सव्वजिणाणं पडिमा वण्णपमाणेहि निअएहिं ॥ | १ ||" श्रीआव० नि० भाष्ये (४५) किंच - आस्तामन्यत्र, भावार्हन्नपि समवसरणे चतूरूपः सन् धर्मदेशनां कुर्वाणो निजप्रतिरूपकसापेक्ष एव, तत्र त्रीणि प्रतिरूपकाणि तानि तु देवकृतान्येव, यदागमः - "जे ते देवेहिं कया तिदिसिं पडिरूवगा जिणवरस्स । तेसिंपि तप्पभावा तयाणुरूवं हवइ रूवं || १ ||" इति श्रीआ० नि० (५५७) तानि च प्रतिरूप - काणि तथा वस्तुस्वाभाव्यात् खल्पकालस्थितिकान्यपि जिनबिम्बान्येव, तदभावे च समवसरणरचनाया एवासंभवात्, तथात्वे च तीर्थकृन्नाथकर्मजन्यपृजास्वादासंभवात्, तदभावे च तीर्थकृत्कर्मणो भोगाभावेन मुक्त्यनवाप्तेः, किंच- प्राचीनदिव्यतिरिक्तासु तिसृषु
GOR
॥ १२३॥