SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ७ विश्रामे ॥८॥ SONGHOTONGHONGKONGOIGION संतंमि अ तित्थयरे गोअमपमुहावि साहुणो सव्वे । भिक्खट्टावि पविठ्ठा कुलेसु गाहावईणंपि ॥८॥ सति च - चोऽप्यर्थे सत्यपि तीर्थकरे - श्रीमहावीरनाम्नि विद्यमानेऽपि गौतमप्रमुखाः - साधवो मिक्षार्थमपि - अन्नपानादिनिमित्तं गृहपतीनां - गृहस्थानां कुलेषु प्रविष्टाः, चारित्राराधन हेतोरन्नपानादेर्दानशक्तिर्यथागार्यगारिणीनां न तथा तीर्थकृतामपि इतिदृष्टान्तेन यथा चारित्रावष्टम्भनसामर्थ्यं श्रुतदेवतादीनां न तथा तीर्थकृतामपीति, अनया दिशाऽनेके दृष्टान्ताः खयमभ्यूह्याः, यथा बहुमूल्येनापि रत्नैनासाध्यमपि कार्यं शीतत्राणादिकं वस्त्राभ्यादिसाध्यं, घृतेनासाध्यमपि शौचकर्मादिकं पिपासोशमनादिकं च जलसाध्यमित्यादि | लोकसिद्धं लोकोत्तरेऽपि वैयावृत्याद्युपष्टम्भनादिना यथा साधवस्तीर्थप्रवृत्तिहेतवो न तथा तीर्थकृतोऽपीत्यादीतिगाथार्थः ॥ ८ ॥ अथ त्रिस्तुतिकः शङ्कते - णणु सुअदेवीधुणणे भवविरहवराइपत्थणा तीए । णो जुत्ता जमसंतं वत्युं किं कोऽवि दिनावि १ ॥ ९ ॥ ननु भोः श्रुतदेवतास्तव ने 'आमूलालोल धूलीबहुलपरिमलालीढलोलालिमालाझङ्कारारावसाराऽमलदलकमलाऽगारभूमीनिवासे । छायासंभारसारे ! वरकमलकरे ! तारहाराभिरामे !, वाणी संदोहदेहे भवविरहवरं देहि मे देवि ! सार ॥१॥ मित्यादिरूपे भवविरहवरादिप्रार्थना तस्याः श्रुत देवताया न युक्ता, यद्यस्मात् कारणादसद्वस्तु - स्वसत्तायामविद्यमानं वस्तुजातं कोऽपि किं दद्यादपि ?, अपि तु न कोऽपि दद्याद्, अयं भावः - श्रुतदेवताया एव भवविरहाभावात् कथं सा भवविरहवरं दद्याद् १, न हि स्वसत्तायामविद्यमानं वस्तुजातं दातुं कोऽप्यलं भवेत्, तस्मादकिञ्चित्करी श्रुतदेवतास्तुतिरिति गाथार्थः ||९|| अथ स्वसत्तायां विद्यमानमेव वस्तु दीयते नान्यदिति नियमाभावं दर्शयन् दूषयति SHONGOONGHONGKONGHODIGONG आगमिकमतोत्प न्यादिः ॥८॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy