________________
श्रीप्रववनपरीक्षा ५ विश्रामे
॥४६३॥
त्कृष्टं वा श्रेयो-मङ्गलं, कुपाक्षिक मार्गाश्रयणापेक्षयाऽन्यतीर्थिक मार्गाश्रयणं सुन्दरमेवेतिगाथार्थः ॥ ५३ ॥ अथ तत्र दृष्टान्तमाहजह नाम कोइ दुहगो चिच्चाऽमियभायणं तु महुरंपि । विसमवि चहउं चउरो भक्तो मिच्छकंदाइ ॥ ५४|| art नामेति कोमलामन्त्रणे दुर्भगोऽमृत भाजनं - पीयुषपात्रं तु त्यक्त्वा मधुरमपि विषं त्यक्त्वा म्लेच्छकन्दादि - लशुनादि भक्षयन् चतुरो भवति, यद्यपि लशुनादिभक्षणं कुलीनानां निन्द्यं दुर्गन्धदुःस्वाद्यं भक्षितुमनुचितं, विषं तु किंचिन्नालिकेरकर्पूरादिसंयोगजन्यं | सुखाद्यं सुगन्धि सुवर्णं च भवति, तथापि तथाविधमपि विषं त्यक्त्वा, अपिरेवार्थे व्यवहितः संबध्यते, त्यक्त्वैव तुच्छभक्षणीयमपि | तथाविधं लशुनं भक्षयन् न जीवितव्यान्मुच्यते, तथा 'जीवन्नरो भद्रशतानि पश्यती 'ति न्यायात् पुनरपि स सुभोजनं लभते, तथा|ऽन्यतीर्थिकः कश्चित्तथाविधोऽपि इह परत्र वा बोधिं लभते, अभिनिवेशी तु नियमाद्दुर्लभबोध्येव यदागमः -- “पंचहि ठाणेहिं | जीवा दुल्लहबोहिअत्ताए कम्मं, पकरेंति, तं०- अरहंताणं अवण्णं वयमाणे १ अरहंतपण्णत्तस्स धम्मस्स अव०२ आयरिअउवज्झायाणं अ०३ चाउवण्णस्स संघस्स अ०४ विविकतवं भचेराणं देवाणं अ०५" इति श्रीस्थानाङ्गे, अत्र त्वेकस्याप्यवर्णवादेन दुर्लभ| बोधिता भणिता, उत्सूत्रभाषी तु युगपत्सर्वेषामप्यवर्णवादीति प्रागुक्तमिति गाथार्थः ॥ ५४ ॥ अथोत्सूत्रमार्गाश्रयणापेक्षया श्रयोऽन्यतीर्थिकतीर्थाश्रयणमित्यत्रापि दृष्टान्तमाह
तेणेव जिणवरेण जइलिंगधरो अकज़कज्जकरो । तम्हा चइउं लिंगं सुसावगो सुंदरो भणिओ ||१५||
येन कारणेन प्रागुक्तं तेनैव कारणेन यदि यतिलिङ्गधरो अकार्य कार्यकरः - अब्रह्मसेवाद्यासक्तः, तस्मात्कारणाद्य तिलिङ्गं त्यक्त्वा | सुश्रावकः शोभन इति जिनवरेण भणितः, अयं भावः शोभनः, यतः - "नय पवयणुड्डाहकरे कंठग्गयपाण सेसेऽवि" ति प्रवचनवचः; | तथा यदि मिध्यात्वं तूभयोरप्यावश्यकं तद्युत्सूत्रभापणं हि तीर्थस्य महाशातना, तत्परित्यागेनैव तच्छोभनमिति गाथार्थः ॥ ५५ ॥
स्तनिकमतशिक्षा
||४६३॥