________________
होइपाठ
श्रीप्रवचनपरीक्षा ॥१५॥
चर्चा
malILIATRIKANERAMINATISHALIPHARIHALIHOSHIARATHIIPLAPHIREET
सुअखंधस्स वाखाणं तं महया पबंधेणं अणंतगमपजवेहिं सुत्तस्स य पिहभूआहिं निजुत्तिभासचुण्णीहिं जहेव अणतणाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासओ वक्खाणिज्जंतं आसी,अहऽण्णया कालपरिहाणिदोसेण ताओ निज्जुत्तिभासचुण्णीओ वुच्छिनाओ, इओ अ वचंतेण कालसमएणं महड्ढिपत्ते पयाणुसारी वयरसामी दुवालसंगसुअहरे समुप्पण्णे, तेणेसो पंचमंगलमहासुअक्खं|धस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरिहंतेहिं भगवंतेहिं धम्मतित्थगरेहिं तिलोअमहिएहिं वीरजिणिंदेहिं पण्णविअंति वुद्धसंपयाउत्ति" ॥श्रीमहानिशीथसूत्रेऽध्यने ।। किंच-श्रीवज्रस्वामिकृतत्वेन हेतुनाऽनङ्गीकारवचनमपि महामोहहेतुः, सर्वेषामपि गर्हणीयस्य दोषद्वयस्य सद्भावात् , तथाहि-वज्रस्वाम्यकृतेऽपि तत्कृतमिति महापुरुषस्य कलङ्कदानमुभयलोकविरुद्धमित्येको दोषः, "जो कण्णाइ धणेण य निमंतिओ जुवर्णमि गिहिवइणा । नयरंमि कुसुमनामे तं वयररिसिं नमंसामि॥१॥" इत्यादिस्तुतिवचनैः श्रीभद्रबाहुस्वामिप्रभृतिमहापुरुषैः स्तुतो युगप्रधानोऽप्यागमव्यवहारी श्रीवज्रखामी सर्वजनप्रतीतः, आगमव्यवहारिणां चाज्ञा न तीर्थकदाज्ञातो भिन्ना, अतस्तदाज्ञोल्लङ्घने तीर्थकृतामप्याज्ञाया उल्लंघनमावश्यकमिति द्वितीयोऽपि महादोषः, तस्मादास्तां तत्कृतनिश्चये, तत्कृतसंशयेऽपि 'हवइ मंगल'मित्येवं भणनीयं स्यात् , कर्ता च श्रीवज्रस्वामी अम्युपगं च श्रीमहावीरप्रवर्तितं तीर्थम् , एवं च सति यः कश्चिद्वराको नाभ्युपगच्छेत् तस्य महति संकटे पतनं, तथाहि|श्रीवज्रस्वामी तदाज्ञा चेत्युभयमप्याराध्यत्वेन तीर्थस्यामिमतमित्यविवादेन युष्माकमपि सिद्धं, तथा यदि 'हवइ मंगल 'मिति |श्रीवज्रस्वामिकृतमिति यौष्माकीणोऽभिप्रायः स्यात् तथापि श्रीवज्रस्वामिकृतत्वेन तीर्थाभिमतत्वेन च तत्तथैवांगीकर्त्तव्यम् , | अन्यथा तीर्थबाह्यता शक्रशतैरपि पराकर्तुमशक्या, तस्मात् यथा श्रीकालकसूरिप्रवर्तिता पर्युषणाचतुर्थी तीर्थाभिमता तीर्थवहिर्म