________________
श्रीप्रवचनपरीक्षा ३ विश्रामे
॥२०९॥
वचः सुन्दरं चन्द्रप्रभाचार्येणोक्तम्, अन्यथा कतिपयालापकानां सम्यग् श्रद्धानं नास्माकमित्येतावन्मात्रमन्यथाभिप्रायेणोक्तमप्युच्च| कर्णबलवादिनेवान्यथाभिप्रायमुद्भाव्य तच्यागासंभवात् शेषं तैरश्रद्धानैरस्माकमपि न सम्यग् श्रद्धानमित्येतावन्मात्रं यत्सूरिणोक्तं तदति| रिक्तं यत् श्रीमहानिशीथगुणवर्णनादिकं तदपि त्यक्तं, नद्युक्तमाहात्म्यं श्रीमहानिशीथं यथा सूरेः प्रमाणं तथाऽस्माकमपीति भणितवान्, न पुनः केवलं सूरिवचस्त्यक्तं, किंतु गणधरवचनैः सहेति, गणधरवचनानि श्रीहरिभद्रसूरिवचश्चेति सर्वमपि चन्द्रप्रभाचा| र्येण त्यक्तमिति चित्रम् - आश्चर्यमित्यर्थः इतिगाथार्थः ॥ ९४ ॥ अथ कुपाक्षिकाणां गणधरवचने आस्ता नास्तीतिदर्शयतिजइ खलु कुवकुखिआणं गणहरवयणाउ हुज्ज सद्दहणं । हरिभद्दासद्दहणं भणिअवमकिंचि ता तेहिं ॥ ९५ ॥ अथ कुपाक्षिकाणां गणधरवचनानां श्रद्धानं भवेत् ता - तर्हि हरिभद्राश्रद्धानं - हरिभद्रसूरेर्यत्कतिपय श्रद्धानं तत्तैः - कुपाक्षिकैरकिंचिद् असारमिति भणितव्यं भवेत्, गणधरवचनापेक्षया अकिञ्चित्करत्वादितिगाथार्थः ॥ ९५ ॥ अथाकिंचिद्गणने हेतुमाह
हरिभद्देवि भणिअं गणहरवयणं महानिसीहं तं । कहमित्थमसद्दहणं अम्हाणं सम्मयं समए ॥ ९६ ॥ यद्–यस्मात्कारणान्महानिशीथं गणधरवचनं हरिभद्रेणापि - श्रीहरिभद्रमूरिणाऽपि भणितं, 'वृद्धवादस्तु पुनर्यथा तावदिदमार्ष सूत्रं, विकृतिर्न तावदत्र प्रविष्टा, प्रभृताश्चात्र श्रुतस्कन्धे अर्थाः सुष्ठु अतिशयेन सातिशयानि गणधरोक्तानि चेह वचनानि, तदेवं स्थिते न | किंचिदाशङ्कनीय' मितिस्वरूपेण तत्रैव निगदितं तदित्यध्याहार्य, तस्मात्कारणाद्' इत्थं' ति अत्र कतिपयालापकेष्वप्यश्रद्धानं श्रीहरिभद्रसूरेरितिगम्यम्, अस्माकं सम्मतं समये-प्रवचने कथं स्यात् १, न कथमपीत्यर्थः, यतो हरिभद्रेणापि श्रीमहानिशीथं गणधरोक्तं भणितं, न पुनः तत्रापि किंचिदन्यकृतमित्यादि भणितं, तत्र यदि श्रीहरिभद्रस्यान्येषामपि तदनुयायिनामश्रद्धानं तर्ह्यस्माकं किम् ?, इत्येव
श्रीमहानिशीथप्रामाण्यम्
॥२०९॥