SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ AS व्याख्याप्रज्ञप्तिः अभयदेवी २ शतके उद्देशः१ स्कन्दक चरित्रं या वृत्तिः ॥२०१॥ सू० ८९ प्रबन्धाः 'सरहस्साणं'ति ऐदम्पर्ययुक्तानां 'सारएत्ति सारकोऽध्यापनद्वारेण प्रवर्तकः सारको वाऽन्येषां विस्मृतस्य सूत्रादेः सारणात् 'वारए'त्ति वारकोऽशुद्धपाठनिषेधात् 'धारए'त्ति चित्पाठः तत्र धारकोऽधीतानामेषां धारणात् 'पारए'त्ति पारगामी 'षडङ्गविदिति षडङ्गानि-शिक्षादीनि वक्ष्यमाणानि, साङ्गोपाङ्गानामिति यदुक्तं तवेदपरिकरज्ञापनार्थम् , अथवा षडङ्गविदित्यत्र तद्विचारकत्वं गृहीतं 'विद विचारणे' इति वचनादिति न पुनरुक्तत्वमिति 'सहितंतविसारएत्ति कापिलीयशास्त्रपण्डितः, तथा 'संखाणे'त्ति गणितस्कन्धे सुपरिनिष्ठित इति योगः, षडङ्गवेदकत्वमेव व्यनक्ति-'सिक्खाकप्पेति शिक्षा-अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च तथाविधसमाचारनिरूपकं शास्त्रमेव ततः समाहारद्वन्द्वात् शिक्षाकल्पे 'वागरणे'त्ति शब्दशास्त्रे 'छंदेत्ति पद्यलक्षणशास्त्रे निरुत्तेत्ति शब्द| व्युत्पत्तिकारकशास्त्रे 'जोतिसामयणे'त्ति ज्योतिःशास्त्रे 'बंभण्णएसुत्ति ब्राह्मणसम्बन्धिषु 'परिव्वायएसु यत्ति परिव्राजकसस्केषु 'नयेषु' नीतिषु, दर्शनेष्वित्यर्थः । 'नियंठे'त्ति निग्रन्थः, श्रमण इत्यर्थः, 'वेसालियसावए ति विशाला-महावीरजननी तस्या अपत्यमिति वैशालिक:-भगवांस्तस्य वचनं शृणोति तद्रसिकत्वादिति वैशालिकश्रावका, तद्वचनामृतपाननिरत इत्यर्थः, 'इणम| क्खेवं ति एनम् 'आक्षेप' प्रश्नं 'पुच्छेत्ति पृष्टवान् , 'मागह'त्ति मगधजनपदजातत्वान्मागधस्तस्थामन्त्रणं हे मागध ! 'वड्ढईत्ति संसारवर्द्धनात् 'हायइत्ति संसारपरिहान्येति । एतावं तावे त्यादि, एतावत् प्रश्नजातं तावदाख्याहि 'उच्यमानः' पृच्छयमानः, 'एवम्' अनेन प्रकारेण, एतस्मिन्नाख्याते पुनरन्यत्प्रक्ष्यामीति हृदयम् । 'संकिए'इत्यादि, किमिदमिहोत्तरमिदं वा? इति संजातशङ्कः, इदमिहोत्तरं साधु इदं च न साधु अतः कथमत्रोत्तरं लप्स्ये? इत्युत्तरलाभाकाङ्क्षावान् काशिन्तः, अस्मिन्नुत्तरे दत्ते किमस्य प्रतीतिरुत्पत्स्यते न वा ? इत्येवं विचिकित्सितः, 'भेदसमावन्ने मदेर्भङ्ग-किंकर्तव्यताव्याकुलतालक्षणमापनः 'कलुषमापन्नः' नाहमिह २०१॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy