________________
त्ति 'दाए लवने' अथवा 'द
पत्तियति का प्रत्ययावत
व्याख्या
प्रज्ञप्तिः अभयदेवी- या वृत्तिः ॥२४॥
२ शतके उद्देशः५ पार्थापत्यवचःसत्यत्वं
आ०१३८
नवकर्मानुपादानं फलमस्येत्यनाश्रवफलः संयमः 'वोदाणफले'त्ति 'दाए लवने' अथवा 'दैप शोधने' इति वचनाद् व्यवदानं-पूर्वकृतकर्मवनगहनस्य लवनं प्राक्कृतकर्मकचवरशोधनं वा फलं यस्य तव्यवदानफलं तप इति । 'किंपत्तियंति कः प्रत्ययः-कारणं | यत्र तत् किंप्रत्ययं ?, निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपःसंयमयोरुक्तनीत्या तदकारणत्वादित्यभिप्रायः । 'पुवतवेणं ति | पूर्वतपः-सरागावस्थाभावितपस्या, वीतरागावस्थाऽपेक्षया सरागावस्थायाः पूर्वकालभावित्वात् , एवं संयमोऽपि, अयथाख्यातचारित्रमित्यर्थः, ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः, रागांशस्य कर्मबन्धहेतुत्वात् , 'कम्मियाए'त्ति कर्म विद्यते यस्यासी | कर्मी तद्भावस्तत्ता तया कम्मितया, अन्ये त्वाहुः-कर्मणां विकारः कार्मिका तया, अक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यथः, 'संगियाए'त्ति सङ्गो यस्यास्ति स सङ्गी तद्भावस्तत्ता तया, ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बन्नाति ततः सङ्गितया देवत्वावाप्तिरिति, आह च-"पुव्वतवसंजमा होति रागिणो पच्छिमा अरागस्स । रागो संगो वुत्तो संगा कम्मं भवो तेणं ॥१॥” 'सच्चे ण'मित्यादि सत्योऽयमर्थः, कस्मात् ? इत्याह-'नो चेव णमित्यादि नैवात्मभाववक्तव्यतयाऽयमर्थः, आत्मभाव एव-स्वाभिप्राय एव. न वस्तुतत्त्वं, वक्तव्यो-वाच्योऽभिमानाद्येषां ते आत्मभाववक्तव्यास्तेषां भाव-आत्मभाववक्तव्यता-अहमानिता तया, न वयमहंमानितयैवं ब्रूमः, अपि तु परमार्थ एवायमेवंविध इति भावना ।।
तेणं कालेणं २ रायगिह नाम नगरे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूतीनाम अणगारे जाव संवित्तविउलतेयलेस्से छटुंछडेणं अनिक्खित्तणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे जाव विहरति । तए णं से भगवं गोयमे छट्टक्खमणपारणगंसि पढमाए
॥२४५॥