SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभय देवीया वृत्तिः ||५८२ ।। येन स तथा ततः कर्मधारयः, 'उपीलिय सर सगपछि 'त्ति उत्पीडिता गुणसारणेन कृतावपीडा शरासन पट्टिका - धनुर्दण्डो येन स तथा, उत्पीडिता वा बाहौ बद्धा शरासनपद्वका बाहुपट्टिका येन स तथा, 'पिणद्ध गेवेज्ज विमलवरबद्ध चिंधपट्टे 'ति पिन-परिहितं ग्रैवेयकं - ग्रीवाभरणं येन स तथा, विमलवरो बद्धचिह्न पट्टो - योद्धचिह्नपट्टो येन स तथा ततः कर्म्मधारयः, 'गहियाउहपहरणे'ति गृहीतानि आयुधानि - शस्त्राणि प्रहरणाय परेषां प्रहारकरणाय येन स तथा, अथवाऽऽयुधानि अक्षेप्यशस्त्राणि खङ्गादीनि प्रहरणानि तु क्षेप्यशस्त्राणि नाराचादीनि ततो गृहीतान्यायुधप्रहरणानि येन स तथा, 'सकोरिंट मल्लदामेणं'ति सह कोरिण्टप्रधानैः - कोरिस्ट काभिधान कुसुमगुच्छेर्माल्यदामभिः - पुष्पमालाभिर्यत्तत्तथा तेन, 'चउचामरवालवीइयंगेत्ति चतुर्णा चामराणां वालैवजितमङ्ग यस्य स तथा, 'मंगल जयसद्दकयालोए'त्ति मङ्गलो- माङ्गल्यो जयशब्दः कृतो- जनैर्विहित आलोके - दर्शने यस्य स तथा 'एवं जहा उबवाइए जाव' इत्यनेनेदं सूचितम् -'अणेगगणनायगदंड नायगराईसरतलवर माडंबिय कोडुंबिय मंति महामंतिगण गदोवारिय अमचचेडपीठ मद्दणगरनिगम सेट्ठिसेणावइसत्थवाहदूयसंधिवाल सद्धिं संपरिवुडे धवलमहा मेहनिग्गए विव गहगणदिप्पंतरिक खतारागणाण मज्झे ससिन्व पियदसणे नरवई मज्जणघराओ पडिनिक्खमइ मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवद्वाणसाला जेणामेव उदाई हत्थराया तेणामेव उवागच्छत्ति तत्रानेके ये गणनायकाः - प्रकृतिमहत्तराः दण्डनायकाः- तन्त्रपालाः राजानो - माण्डलिकाः ईश्वरा - युवराजाः तलवराः - परितुष्टनर पतिप्रदत्त पट्टबन्ध विभूषिता राजस्थानीया माडम्बिका:- छिन्नमडम्बाधिपाः कौटुम्बिका:- कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः - प्रतीताः महामन्त्रिणो- मन्त्रिमण्डलप्रधानः गणकाः- ज्योतिषिकाः भाण्डागारिका इत्यन्ये दौवारिकाःप्रतीहाराः अमात्या - राज्याधिष्ठायकाः चेटा:- पादमूलिकाः पीठमर्दाः - आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगर मिह सैन्यानि - ७ शतके उद्देशः ९ महाशिला कंटकः सू० २९९ ॥५८२ ॥ प्र०आ०३१८
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy