________________
धर्मपरीक्षा
॥२८४॥
वतः, ईदृशी यत्र धर्मे चेष्टा सप्रपञ्चा प्रोच्यते स धर्म छेदशुद्ध इति ॥ तापश्च जीवादिनश्वानां वादः - स्याद्वादरीत्योपन्यासः । यथाहि - कषच्छेदशुद्धमपि सुवर्ण तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते, एवं धर्मोऽपि सत्यामपि कषच्छेद शुद्धौ तापपरीक्षायाम निर्वहमाणो न स्वभावमासादयति, अतो. जीवादितत्वानां स्याद्वादप्ररूपणया तापशुद्धिरन्वेषणीया । यत्र हि शास्त्र द्रव्यरूपतया - प्रच्युतानुत्पन्नः, पर्यायात्मकतया च प्रतिस्वमपरापरस्वभावास्कन्दनेनानित्यस्वभावो जीवादिरवस्थाप्यते, स्यात्तत्र तापशुद्धिः । यतः | परिणामिन्येवात्मादौ तथाविधाशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कपो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते न पुनरन्यथेति । अत्र च ताप| परीक्षा बूलवती, कपच्छेदभावेऽपि तापाभावे परीक्षाऽसिद्धः, नहि तापे विघटमानं हेम कपच्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपत्तुमलम्, युक्तिस्वर्णत्वात्तस्येति ॥ ८७ ॥ एताभिः परीक्षाभिर्धमें परीक्षिते, धर्मवान् गुरुरपि परीक्षित एव भवतीत्यभिप्रायवानाह— याहिं परिक्खाहिं, सुद्धे धम्मंमि परिणया जे उ ॥ गुरुणो गुणजलणिहिणो, ते वि विसुद्धा सुवण्णं व ॥८८॥
[ एताभिः परीक्षाभिः शुद्धे धर्मे परिणता ये तु ॥ गुरवो गुणजलनिधयः, तेपि विशुद्धाः सुवर्णमिव ॥ ८८ ॥ ]
व्याख्या - एताभिः कषादिपरीक्षाभिः शुद्धे धर्मे ये परिणता एव ते गुरवोऽपि गुणजलनिधयः सुवर्णमिव विशुद्धा द्रष्टव्याः, यद्द्द्रव्यं यदा यद्रूपेण परिणमते तत् तदा तन्मयमेवेति शुद्धधर्मपरिणता गुरवोऽपि शुद्धधर्मरूपत्वेनैवादरणीया इति भावः ॥ ८८ ॥ सुवर्णसदृशत्वमेव गुरूणां भावयन्नाह -
सत्थोइयगुणजुत्तो, सुवन्नसरिसो गुरु विणिदिहो ॥ ता तत्थ भांति इमे, विसघायाई सुवन्नगुणे ॥ ८९ ॥ [शास्त्रोदितगुणयुक्तः सुवर्णसदृशो गुरुर्विनिर्दिष्टः । तस्मात्चत्र भणन्ति विषघातादीन्सुवर्णगुणान् ॥ ८९ ॥]
सटिप्पणा ॥ स्वोपच चिः ॥ गाथा-८८ ८९
॥२८४ ॥