SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२७७॥ त्सत्कारपुरस्कारपरीषहः७, इति । अथ चारित्रमोहोदये सत्येते परीषहाः प्रोक्ता, तस्मादुपशान्ते न भवन्तीति चेत् , तर्हि चारित्रमोहनी सटिप्पणा यकर्मोदये सति प्राणातिपातादयः प्रोक्ताः, अतस्तेऽपि तत्र मा भूवन् । अथ भावत एव प्राणातिपातादयश्चारित्रमोहनीयोदयसमुत्थाः, ॥ खोपड़ | द्रव्यतस्तु चारित्रमोहनीयस्य सत्तायामपि तत्र ते भवन्तीति चेत् , तर्हि भावत एव चारित्रमोहनीयोदयसमुत्थाः सप्त परीषहाः सूक्ष्मस-18 वृचिः ॥ म्परायगुणस्थानं यावद्भवन्ति, द्रव्यतस्तु त एवोपशान्तमोहेऽपि चारित्रमोहसत्तानिमित्तका भवन्तु, युक्तरुभयत्र तौल्यादिति । यच्च गाथा-८३ सम्भावनारूढमृषाभाषणनिषेधव्याघातेनैव तत्सिद्धिसमर्थनं कृतं तत्तु शशशृङ्गस्यापि निषेधव्याघातात्तत्सिद्धिसमर्थनप्रायम् । या चा- ॥२७७॥ |ऽलोके लोककल्पनातुल्या सम्भावना प्रोक्ता, सा तु प्रकृतार्थस्यातिशयितत्वमेव प्रतिपादयेद् । अलोके लोकप्रमाणासंख्येयखण्डप्रमाणा-19 वधिज्ञानविषयकल्पना हि वैज्ञानिकसम्बन्धेन तद्विषयविशिष्टतामवधिज्ञानस्यैव ज्ञापयतीति । आह च (विशे०) भाष्यकार॥"वडतो पुण बाहिं, लोगत्थं चेव पासई दव्वं ॥सुहुमयरं सुहुमयरं, परमोही जावपरमाणु॥६०६॥"( वर्धमानः पुनरवधिलॊकस्थमेव पश्यति द्रव्यं । सूक्ष्मतरं सूक्ष्मतरं परमावधिर्यावत् परमाणुम् ।।) इति । तद्वदिहापि सम्भावनया विशिष्टमेव मृषाभाषणं प्रसज्यतेति विपरीतैवेयं कल्पना भवत इति । यच्च अत एव 'कालशौकरिकस्य'इत्यायुक्तं, तत्तु तं प्रत्येव गति, यतः कालशौकरिकस्य महिपव्यापादनं महिषव्यापादनत्वेन भगवतोक्तं तद्भावमाश्रित्य, तेन तत्र तत्कल्पनायाः प्रामाण्यम् , सम्भावनारूढमृषाभाषणादेम॒षाभाषात्वादिकं तु भावतो नोच्यत इति कथं तत्कल्पना स्याद् ? न ह्यसतः सम्भावनापि सम्भवति, नहि क्षीणमोहे मैथुनादीनां भवतापि सम्भावना क्रियते; अत एव क्षीणमोहे सम्भावनारूढमृषाभाषादेः स्नातकचारित्रप्रतिबन्धकत्वेन दोषत्वमित्यपि निरस्तम् , असतो दोषत्वायोगात् । अत एव चित्रलिखितनारीदृष्टान्तोऽपि.निरस्तः, असत आकारमात्रताया अप्यभावादिति न किञ्चिदेतत् । यच्च छद्मस्थलिङ्गानां द्रव्यभूतानां मिथ्या HLCUCUCUCURRECRUI
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy