________________
धर्मपरीक्षा ॥२७५॥
CRACREAUCCCCCCCA-U
यग्रहणायेति]" तद्वदिह यदि क्षीणमोहे सम्भावनारूढं मृषाभाषणं सम्भवे वक्तव्यं तदा व्यक्तित एव भावरूपं सम्पन्नम् , यदि च सम्भाव्ये तदा शक्तित इति न कथमपि पृथग् भवितुमर्हति । न च क्षीणमोहे मृषाभाषणं केवलं सम्भाव्यमेव, अपूर्वादिषु पञ्चसु गुणस्थान
सटिप्पणा
॥स्वोपड़ केषु चतसृणां भाषाणां कर्मग्रन्थे द्वितीयतृतीयवाग्योगौ मिथ्यादृष्टेरारब्धौ यावत् क्षीणकषायवीतरागछद्मस्थस्तावल्लभ्येते । तथोपशान्त-15
वृत्तिः ॥ कषायस्थाने क्षीणकषायस्थाने च 'नवयोगा बन्धहेतवः' इत्यस्य चार्थस्याविशेषेणैवाभिधानाद् । अवश्यंभावित्वाभिप्रायेण च यत्सम्भा
लै गाथा-८३ व्यत्वाभिधानं तत्तु सत्संयतमात्रस्यैव मृषाभाषणादेः स्यादिति द्रष्टव्यम् । किञ्च-सर्वमपि मृषाभाषणं क्रोधमूलकमेवेति वदतस्तव सम्भा- ॥२७॥ वनारूढमपि मृषाभाषणं तन्मूलकमेव स्यात् , तथा च क्षीणमोहे तस्याप्यभावः प्राप्नोति । ननूक्तं तदनाभोगहेतुकमेवेति चेत् , तर्हि तादृशं द्रव्यतो मृषाभाषणमेव किमिति नाभ्युपेयते ? किं सम्भावनया?, न च द्रव्यभूतेन तेन प्रत्याख्यानभङ्गो भवति, भावभूतस्यैव तस्य प्रत्याख्यातत्वात् , "प्रमत्तयोगादसदभिधानं मृषा" इति तत्त्वार्थवृत्तिवचनात् । न च भावतः प्राणातिपातमृषाभाषणादेयत्कारणं तदेव तस्य द्रव्यतोऽपीति क्षीणमोहे न तत्सम्भवतीति वाच्यम्, एवं सति भावतो ज्ञानदर्शनचारित्राणां यानि कारणानि तान्येव द्रव्यभूतानां तेषां कारणानि स्युरिति, अभव्यादीनामपि द्रव्यतो ज्ञानदर्शनचारित्रवतां ज्ञानावरणीय-दर्शनमोहनीय-चारित्रमोहनीयकर्मक्षयोपशमाः
कारणानि स्युः । तथा चागमबाधा । किश्च-एवं केवलिनो द्रव्येन्द्रियाणामप्यभावापत्तिः, भावेन्द्रियहेतुज्ञानावरणदर्शनावरणक्षयो8| पशमयोः केवलिन्यभावाद् । न च द्रव्येन्द्रियाभावः केवलिन्युक्तः, किन्तु भावेन्द्रियाभाव एवेति । किञ्च-उपशान्तमोहे यथा जीव-13 विराधना मोहनीयकारणमन्तरेणापि भवति, तथा क्षीणमोहे मोहाभावेऽपि द्रव्यतो जीवविराधनामृषाभाषादिसद्भावे किं बाधकम् ?, अथास्त्येवागमबाधा । तथाहि-"रायगिहे जाव एवं वयासी, अह भंते ! पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे एस