________________
धर्मपरीक्षा
RUS
॥२६॥
सटिप्पणा ॥स्वोषज्ञ वृचिः ॥ गाथा-८३ ॥२६८॥
-SSAGGRESOU
दोषावहः । किं च केवलित्वगमकानि सप्तापि लिङ्गानि मोहनीयक्षयसमुत्थान्येव, 'केवली हि क्षीणचारित्रावरणत्वानिरतिचारसंयमत्वादप्रतिषवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवति' इति वचनात् , तेन लिङ्गापेक्षया द्वयोरपि साम्यमेव । एवं च सति यदि क्षीणमोहस्य छद्मस्थवीतरागस्य कथंचित्केवलित्वं नाभ्युपगम्यते, तर्हि क्षीणमोहे छद्मस्थवीतरागे सप्तापि लिङ्गानि व्यभिचरन्ति, तत्र हेतुषु विद्यमानेषु साध्यस्य केवलित्वस्यासत्त्वात् । नन्वास्तामन्यत् , परं केवलिनः पश्चानुत्तराणि भवन्ति । यदागम:-"केवलिस्स णं पंच अणुत्तरा पन्नत्ता । तंजहा-अणुत्तरे नाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिए"त्ति । एतानि पश्चापि केवलिनि वर्तमानानि कथं केवलित्वगमकलिङ्गतया नोक्तानि? इति चेद्, उच्यते-एतेषां पञ्चानामपि छद्मस्थज्ञानागोचरत्वेनानुमितिजनकत्वाभावात् न लिङ्गानि भवितुमर्हन्ति, प्रत्युत केवलज्ञानादिपरिज्ञानार्थमेवोक्तलिङ्गानां प्रज्ञापनेति। एतेन 'सप्तापि प्राणातिपातादीनि छद्मस्थानां रागद्वेषजनितानि, तेषां तयोः सत्त्वात् । केवलिनस्तु रागद्वेषजनितानां तेषां निषेधो न पुनः सर्वथा निषेधः, चक्षुःपक्ष्मनिपातमात्रजन्याया असङ्ख्येयवायुकायजीवविराधनायाः केवलिनोऽप्यनिवृत्तेः,' इति निरस्तम् , अशक्यपरिहारस्यापि केवलिनि निरासात् । | किंच-परकीयरागद्वेषयोस्तदभावस्य च निरतिशयच्छमस्थज्ञानागोचरत्वेन तथाभूतच्छद्मस्थमात्रानुमितिजनकलिङ्गानां विशेषणत्वासम्भवात् , सम्भवे च यो रागद्वेषवान् स छद्मस्थः, यस्तु रागद्वेषरहितः स केवलीति विशेषणज्ञानमात्रेण छद्मस्थकेवलिनोविवेकेन सम्यग्निर्णये जाते प्राणातिपातादीनां तनिषेधरूपाणां च विशेष्यपदानां भणनमुन्मत्तप्रलापकल्पं सम्पयेत, प्रयोजनाभावात् , धर्मोपदेशादिक्रियामात्रस्यापि तथात्वेन सप्तसङ्ख्याभणनस्यायुक्तत्वाच्च । किंच-अप्रसिद्धविशेषणदानेन हेतूनां सन्दिग्धस्वरूपासिद्धतापि, तथा रागद्वेषवस्वछद्मस्थत्वयोस्तद्राहित्यकेवलित्वयोश्चैक्यमेवेति हेतोः साध्यघटितत्वेन हेतुस्वरूपहानिः; तस्मादविशिष्टानामेव छद्मस्थगम्यप्राणातिपाता-1
ARASOSLASHGg3.90*
5