SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृचौ. भावद्वारे ॥२९८॥ द्वीपमध्ये संख्येययोजनकोटीकोट्य आयामविष्कम्भाभ्यां मानससरोवरमस्ति, ततोऽस्यां विशेषाधिका जीवाः, तदेवं सामान्येन जीवानां दिगाश्रितमल्पबहुत्वमभिहितं, विशेषतोऽप्यब्वनस्पतिद्वित्रिचतुरिन्द्रियतिरथामिदमेव प्रायो ऽल्पबहुत्वकारणं, तेजोवायूनां तु मेरोः पश्चिमायां दिश्यधोलौकिकग्रामेषु बाहल्यसद्भावाद् बहुत्वमन्यत्र त्वल्पत्वं इत्यादि सर्वमन्यत् समयसमुद्रादधिगन्तव्यम्, ऊर्ध्वाधस्तिर्यगुलोकाश्रयेण स्तोका जीवास्तिर्यग्लोके ऊर्ध्वलोके त्वसंख्येयगुणाः, क्षेत्रस्यासंख्येयगुणत्वादसंख्येयगुणाः, अधोलोके तु क्षेत्रविशेषाधिक्याद्विशेषाधिका इत्यलं विस्तरेण, तदर्थिना तु प्रज्ञापनातृतीयपदमन्वेषणीयमिति गाथार्थः ।। २८१ ।। तदेवमभिहितं जीवगतमल्पबहुत्वं, साम्प्रतमजीवगतं तदभिधित्सुराह - धम्माधम्मागासा तिन्निवि दवट्टया भवे थोवा । तत्तो अनंतगुणिया पोग्गलदव्वा तओ समया ॥ २८२ ॥ द्रव्यलक्षणोऽर्थो द्रव्यार्थस्तद्भावो द्रव्यार्थता तया द्रव्यार्थतया - द्रव्यत्वेन चिन्त्यमानानि धर्माधर्माकाशास्तिकायलक्षणानि वस्तूनि त्रीण्यपि प्रत्येकमेकैकद्रव्यत्वात् स्वस्थांन तुल्यान्युत्तरद्रव्यापेक्षया तु स्तोकानि भवन्ति, तेभ्यस्त्वनन्तगुणानि पुद्गलद्रव्याणि परमाणुव्यणुकत्र्यणुकान्यनन्ताणुकपर्यंतानि, तेभ्योऽपि निर्विभागकालांशरूपाः समयाः अनन्तगुणाः, तेषु हि पुद्गलद्रव्येषु मध्ये एकैकेन परमाण्वादिद्रव्येण अन्यान्यद्रव्यक्षेत्र कालभावसंयोगैरनन्ताः समयाः समनुभृतपूर्वाः एवमपरापरद्रव्यक्षेत्रकालभावसम्बन्धेनेनानन्ताः समयाः पुरस्तादप्यनुभविष्यन्त इति युक्तं पुद्गलद्रव्येभ्यः समयानामनन्तगुणत्वं न च वक्तव्यमतीतसमयानां विनष्टत्वेन भविष्यतां चानुत्पन्नत्वेनावस्तुत्वात् वर्त्तमान एवैकः समयोऽवस्थितः, निरन्वयविनाशस्यैकान्तासत उत्पादस्य चान्यत्र न्यक्षेण निराकृतत्वादिति गाथार्थः ॥ २८२ ॥ अथ धर्मास्तिकायाद्यजीवानामेव प्रदेशार्थतयाऽल्पबहुत्वमाह - दिक्षुजीवानामल्प बहुत्वं अजीवानां च ॥२९८॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy