________________
I
हेमीवृत्ती
जीवसमासे | थोवा नरा नरेहि य असंखगुणिया हवंति नेरइया । तत्तो सुरा सुरेहि य सिद्धाणता तओ तिरिया ॥ २७१॥
४ गतेर्वेदानां _शेषगतिसम्बन्धिजीवापेक्षया मनुष्यगतिवर्त्तिनो मनुष्यास्तावत् सर्वेभ्योऽपि स्तोकाः, अर्द्धतृतीयद्वीपसमुद्रमात्रवर्तित्वातेषां,
&चापेक्षयाऽभावद्वारे
ल्पबहुत्वं | तेभ्योऽप्यसंख्यातगुणिता नारका भवन्ति, रत्नप्रभादिसप्तपृथ्वीभावित्वादेकैकस्यां च पृथिव्यामसंख्येयानां तेषां सद्भावात, तेभ्यो॥२९ ॥ मपि चासंख्येयगुणिताः सर्वेऽपि सुराः, भवनपतिव्यन्तरज्योतिष्केषु द्वादशसु देवलोकेषु नवसु ग्रैवेयकेषु पञ्चसु चानुत्तरविमानेषु
| तेषां सद्भावात् , महादण्डके तथैव पठितत्वाचेति, तेभ्योऽप्यनन्तगुणाः सिद्धाः, कालस्यानन्तत्वात् षण्मासान्ते च कस्यचिदवश्यं | सिद्धिगमनात् तत्प्राप्तस्य च पुनरावृत्त्यभावात् , तेभ्योऽपि च तियचोऽनन्तगुणाः, अनन्तेनापि कालेनैकनिगोदानन्तभागवर्तिजी|वराशेः सिद्धत्वात् , तिर्यग्गतौ चासंख्येयनिगोदसद्भावात् , प्रतिनिगोदं च सिद्धानन्तगुणजीवराशिभावादिति गाथार्थः ॥ २७१ ॥ | अथ तिर्यगादिगतिवर्तिनीनां स्त्रीणां तत्प्रसंगतोऽन्येषां च नारकादीनामल्पबहुत्वमाह--
थोवा य मणुस्सीओ नरनरयतिरिक्खओ असंखगुणा। सुरदेवी संखगुणा सिद्धा तिरिया अणंतगुणा ॥२७२॥ | पूर्वोक्तयुक्तित एव सर्वस्तोकास्तावन्मनुष्यस्त्रियः, 'नरास्तु' मनुष्यास्तेभ्यः, असंख्येयगुणा इति सर्वत्र सम्बध्यते, आह-ननु
स्थानान्तरे मनुष्येभ्यो मानुष्य एव सप्तविंशतिगुणाः सप्तविंशतिरूपाधिकाः प्रोक्ताः, यदाह- " तिगुणा तिरूवअहिया तिरिया-18 | णं इत्थिया मुणेयव्वा । सत्तावीसगुणा पुण मणुयाणं तदहिया चेव ॥१॥ बत्तीसगुणा बत्तीसरूव अहिया य तह य देवाणं । ॥२ देवीओ पण्णता जिणेहिं जियरागदोसेहिं ॥२॥" इह तु कथं ताभ्यो मनुष्या एवासंख्येयगुणाः?, सत्यं, किन्तु गर्भजनरापेक्षया
SRAE%
EOS