________________
जीवसमासे हैमीवृत्ती भावद्वार
प्रसिद्धत्वसंसारस्थत्वादयश्चापरेशन न्यापि द्रष्टव्या इति । पारिणामिनापारणामिको भाव इत्यर्थ इति
15.
॥२८७॥
कर्मोदये सम्पद्यत इत्येवं यथास्वकर्मोदयजन्यत्वादमी गत्यादयो जीवपर्यायाः सर्वेऽप्यौदयिकाः। आह-यद्येवं तर्हि निद्रापंचक- सानिपावेदनाहास्यरत्यरत्यादयोऽसिद्धत्वसंसारस्थत्वादयश्चापरेऽपि कर्मोदयजन्याः पर्याया जीवेषु बहवः सन्ति, तेऽपि कस्मादिह तिक भेदाः नोक्ताः', 'सत्यम् ' उपलक्षणमात्रत्वादमीषां सम्भविनोऽन्येऽपि द्रष्टव्या इति । पारिणामिकभावमाह-'जिये' त्यादि, जीवत्वं भव्यत्वं इतरच्च-अभव्यत्वं, जीवस्य स्वभावः अनादिकालात् प्रवृत्त, आत्मगतं स्वरूपं अनादिपारिणामिको भाव इत्यर्थ इति | गाथार्थः ॥ २६९ ॥ अत्राह-ननु दर्शिता मोहजत्वादिरूपेण केवलज्ञानादिकार्यदर्शनद्वारेण च औदयिकादयः पंच भावाः, षष्ठस्तु | सान्निपातिको भावो य आदौ जीवानामस्तित्वेनोक्तः स कार्यादिदर्शनद्वारेण क्वापि न प्रोक्तः, सत्यं, किन्तु यद्यौदयिकादिभावपंच
कव्यतिरिक्तोऽसौ भवेत्तदा तस्य कार्याद्यपि भिन्नं दर्येत, एतच्च नास्ति, औदयिकादिभावद्वयादिसंयोगेनैव तस्यागमे निर्दिष्ट-17 | त्वात् , तथाहि-औदयिकादिभावपंचकस्य दश द्विकसंयोगा भवन्ति, दशैव च त्रिकसंयोगाः, पंच चतुःसंयोगाः, एकस्तु पंच-18 कसंयोग इत्येवं प्ररूपणामात्रेण षड्विंशतिभङ्गनिष्पन्नः सान्निपातिको भावो भवति, परमार्थतस्त्वेतेषां मध्ये जीवेषु षडेव भङ्गाः प्राप्यन्ते, शेषास्तु विंशतिः प्ररूपणामात्रेणैव संति, न पुनः कापि लभ्यन्ते, तत्र दशसु द्विकसंयोगेषु मध्ये क्षायिकपारिणामिकभावद्वयनिष्पन्नो नवमो भंगकः सिद्धानां सम्भवति, क्षायिकस्य सम्यक्त्वादेः पारिणामिकस्य तु जीवत्वस्य तेषु भावात् , शेषास्तु नवद्विकयोगभंगकाः प्ररूपणामात्रम् , अन्येषां हि संसारिजीवानामौदयिकी गतिः क्षायोपशमिकं ज्ञानादिकं पारिणामिकं तु जीवत्वमित्यादिभावत्रयं जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकयोगसम्भव? इति भावः, त्रिकसंयोगेष्वपि दशसु मध्ये औदयिक
॥२८७॥ | क्षायिकपारिणामिकमावत्रयनिष्पन्नः पंचमो भंगः केवलिनः सम्भवति, तथाहि-औदयिकी मनुष्यगतिः क्षायिकाणि केवलज्ञाना
5
45
%