________________
| क्षायोपशमिकादि| भावभेदाः
| दर्शनसप्तके चारित्रं तु चारित्रमोहनीये उपशान्ते सम्भवति, अत औपशमिकभावत्तित्वमनयोरिति गाथार्थः ॥२६७।। अथ क्षायोहैमीवृत्तौ.
पशमिकभाववर्त्तिनो लब्धिविशेषानुपदर्शयन्नाहभावद्वारे
नाणा चउ अण्णाणा तिनि उ सणातगं च गिहिधम्मो । वेयय चउ चारित्त दाणाइग मिस्सगा भावा ॥ २६८॥ ॥२८५॥
'मिस्सगा भावत्ति, एते ज्ञानादयो भावा-जीवपर्याया मिश्र-क्षायोपशमिकं भावं गच्छन्ति-कारणत्वेनाश्रयन्तीति | मिश्रगाः-क्षायोपशमिका भवन्ति, तथाहि-मतिश्रुतावधिमनःपर्यायलक्षणानि चत्वारि ज्ञानानि मत्यज्ञानश्रुताज्ञानविभंगज्ञानरूपाणि |च त्रीण्यज्ञानानि यथास्वमावारकस्य मतिज्ञानावरणादिकर्मणः क्षयोपशम एव भवन्ति, 'दसणतिगं च'त्ति चक्षुरचक्षुरवधिदर्शनत्रिकं चक्षुर्दर्शनावरणादिक्षयोपशमे, गृहिधर्मो-देशविरतिरूपः, सोऽप्यप्रत्याख्यानावरणकषायमोहनीयक्षयोपशमे, 'वेयय--
त्ति वेद्यन्ते विपाकानुभवेन सम्यक्त्वपुञ्जपुद्गला यत्र तद्वेदकं-क्षायोपशमिकं सम्यक्त्वं, तदपि दर्शनसप्तकक्षयोपशमे, 'चउ चारित्त'&ाति, सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्परायलक्षणं चारित्रचतुष्कं तु चारित्रमोहनीयक्षयोपशमे, 'दाणाइग' ति
दानादिकास्तु पञ्च लब्धयोऽन्तरायकर्मक्षयोपशमे भवन्ति, आह-ननु दानादिलब्धयः पूर्व क्षायिक्यः प्रोक्ता इह तु क्षायोपशमिक्य | इति कथं न विरोधो ?, नैतदेवम् , अभिप्रायापरिज्ञानाद्, दानादिलब्धयो हि द्विविधा भवन्ति-अन्तरायकर्मणः क्षयसम्भविन्यः
क्षयोपशमसम्भविन्यश्च, तत्र पूर्व याः क्षायिक्योभिहितास्ताः क्षयसम्भविन्यः केवलिन एव भवन्ति, यास्त्विह क्षायोपशमिक्यः |प्रोच्यन्ते ताः क्षयोपशमभाविन्यश्छमस्थानामेव अवगन्तव्या इत्येवममी सर्वेऽपि प्रस्तुता भावाः क्षायोपशमिका भवन्तीति गाथार्थः ॥ २६८ ॥ अथौदयिकभावजन्यान् पारिणामिकभाववर्तिनश्च जीवधर्मान् दिदर्शयिषुराह
SASARASAS
६ ॥२८५॥