________________
जीवसमासे हैमीवृत्ती भावद्वारे
॥२८३॥
मध्ये मोहनीयस्योक्तत्वादिह शेषाणि त्रीण्येव गम्यन्ते, अतस्तेषु ज्ञानदर्शनावरणान्तरायलक्षणेषु त्रिषु घातिकर्मस्वौपशामिकवा कर्मसुभा|एत एवौदयिकक्षायिकक्षायौपशमिकलक्षणाः समनन्तरोक्तास्त्रयो भावा भवन्ति, औपशमिकस्तु मोहनीयं वर्जयित्वा शेषकर्मसु न
वावतारः | सम्भवत्येव, “ मोहस्सेवोवसमो" इति वचनादिति, ' होंति उ सेसाई ओदइए' त्ति विभक्तिव्यत्ययादुक्तशेषषु तु भवोपग्राहिषु वेदनीयायुर्नामगोत्रलक्षणेषु चतुषु कर्मस्वौदयिको भावो भवति, न शेषा इत्यर्थः, आह-ननु क्षायिके भावे एतान्यपि वर्त्तन्त एव, शैलेश्यवस्थादिष्वेतेषामपि क्षयसम्भवादन्यत्रोक्तत्वाच, यदाह- " मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं । खयपरिणामियउदया अट्ठण्हवि हुंति कम्माण ॥ १॥" ति, सत्यं, किन्तु यथा ज्ञानावरणादीनां क्षये विशिष्टाः केवलज्ञानादिका लब्धयः प्रादुर्भवन्ति, नैवमेतेषां क्षये काचिद्विशिष्टा लब्धिरुद्भवन्ती समये समाकर्ण्यते, एका तु सिद्धत्वलब्धिः सत्यपि न विवक्षिता, एकत्वादेवेति, अतः सन्नप्येषां क्षायिको भावोज़ नाभिधित्सितः, औदयिकस्त्वभिहितः, प्रस्तुतकर्मोदये वेदनादीनां व्यक्तानामवोपलम्भादिति, अपरस्त्वाह-ननु कर्मणां विपाकतोऽनुभवलक्षणः प्रागुदयः प्रतिपादितः, स च जीवस्यैव सम्भवति, न कर्मणां, तेषां विपाकानुभवस्याभावात् , तत् कथमेतान्यौदयिके भावे वर्तन्त इति?, उच्यते, हन्त ! विस्मरणशीलोसि यतोऽनन्तरमेवोक्तं | विपाकानुभवलक्षणस्योदयस्यानुभवितरि जीवेऽनुभवनीये कर्मणि च स्थितत्वादन्यतराभावेऽपि तस्याभावादिति, सत्यं, न किञ्चि
॥२८३॥ विस्मृतं, किन्त्वनेन न्यायेन कर्माण्याश्रित्यौपशमिकादयोऽपि भावा अजीवानामपि प्राप्नुवन्ति, उपशमादीनामपि तत्कतीर 3 जीवे उपशमनीयादिके च कर्मणि स्थितत्वादिति, सत्यमेतत् , किन्तु विवक्षाप्रधानत्वात् सूत्रप्रवृत्तीनामौदयिकपारिणामिकावेव