________________
श्री सोध
નિર્યુક્તિ
ભાગ-૨
ण
मो
ण
सोऽपि वैद्यो यस्मै कथितं स प्रतिकर्म आरभते । एवं जानताऽपि प्रायश्चित्तविधिमात्मनः सम्यक्करणेन तथाऽपि प्रकटतरमालोचयितव्यमवश्यमिति । किञ्च सुगमा । 'न हु' नैव शुद्ध्यति सशल्यः पुरुषः, कथं पुनः शुद्ध्यति ?, यथा भणितं धुतरजसां शासने तथा शुद्ध्यति, कथं पुनः शुध्यति अत आह- उद्धृतसर्वशल्यो जीवः शुद्ध्यति धुतक्लेश इति, तस्माद्यद्यपि कथमपि किञ्चिदकार्यं कृतं तथाऽप्यालोचयितव्यम् । कथं पुनस्तत्कृतं भवतीत्यत आह
'सहसा'
स
॥ ८७१ ।। म अप्रतर्कितमेव प्राणिवधादिकमकार्यं यदि कृतं ततस्तस्मात्प्रतिक्रमितव्यमित्येतत् द्वितीयगाथायां वक्ष्यते, अज्ञानेन च कृतं
ण
-
मो
ס
स्स
न तत्र प्राणी ज्ञातो व्यापादितश्च भीतेन- आत्मभयात् मा भूदयं मां मारयिष्यतीत्यतः प्राणव्यपरोपणं यदि कृतं, प्रेरितेन वा परेण यदि कृतं, व्यसनेन वा आपदा यदि कृतं आतङ्केन वा ज्वराद्युपसर्गेण यदि कृतं मूढेन वा रागद्वेषैर्यत्कृतं भ किञ्चिदकार्यं ततः यत्किञ्चित्कृतमकार्यं तत्पुनः 'नहु' नैव समाचरितुं लब्धा - उपलभ्येत यथा तथा प्रतिक्रमितव्यं, भ एतदुक्तं भवति-किञ्चिदकार्यं कृत्वा पुनर्यथा नैव क्रियते तथा तस्य प्रतिक्रमितव्यं, न पुनस्तदकार्यं हृदयेन वोढव्यं, सर्वमालोचयितव्यमित्यर्थः । कथं पुनस्तदालोचयितव्यमित्यत आह तस्य च साधोर्यत्प्रायश्चित्तं मार्गविदो गुरव ओ उपदिशन्ति तत्प्रायश्चित्तं ' तथा ' तेनैव विधिनाऽऽचरितव्यं, कथम् ?, अनवस्थाप्रसङ्गभीतेन सताऽऽचरितव्यम्, अनवस्था नाम यद्यकार्यसमाचरणात्प्रायश्चित्तं न दीयते क्रियते वा ततोऽन्योऽपि एवमेव समाचरति यदुत प्राणिव्यपरोपणादौ न किञ्चित्प्रायश्चित्तं भवति ततश्च समाचरणे न कश्चिद्दोष इति एवमनवस्थाप्रसङ्गभीतेन साधुना प्रायश्चित्तं
ग
व
11 299 11